________________
धन्योऽयं निःस्पृहः सर्वसांसारिक वस्तुषु । स्वोचितं वस्तु यल्लाति, स तदेति व्यचिन्तयत् ॥ ७७ ॥
ततः पुनरिति स्वीये हृद्यालोचयति स्म सः । एतद्योग्यं गृहे मेऽस्ति पुस्तकं तद्ददाम्यहम् ॥ ७८ ॥ विचार्यैवं तदा चित्ते कृत्त्वा च प्रचुराग्रहम् । ददौ श्रीगुरवे दिव्यं सिद्धान्तादिकपुस्तकम् ॥ ७९॥ पुत्रे मित्रे कलत्रे च धनस्वजनभूघ ग्रामे द्रङ्गे गजादौ च निरीहाय महात्मने ॥
।
८० ॥
स
जग्राहाग्रहात्पुस्तं तस्यानुग्रहहेतवे नीरागोऽपि निरीहोऽपि धर्मलाभाय भूयसे ॥ ८१ ॥
ततः सूरिः समादाय तदा तच्छस्तपुस्तकम् । आगरानगरेऽमुञ्चच्छास्त्रकोशतयालयांत्
- युग्मम् ।
साधिकप्रहरं यावत्तत्रैकत्रोपविश्य च 1 गोष्टीं धर्मस्य तौ कृत्वा मिथस्तुतुषतुस्तराम् ॥ ८३ ॥ श्रीसाहिसमनुज्ञातस्ततः सूरिः समाययौ 1 उपाश्रये सहानेकलोकैराडम्बरोत्सवैः 11 ८४॥
-
11 ८२॥
ततश्च सकले लोके जज्ञे प्रवचनोन्नतिः । यत्स्यात्स्फातिमदानन्दि सतां चानुपदं महः ॥ ८५॥ ८५ अत्र स्फातिरयं शब्दः दन्त्यपवर्गद्वितीयस्वरादिः स्फायैङ् वृद्धौ भ्वादिरात्मनेपदी । अस्मात् स्फायः स्फी वा इति सूत्रेण क्तयोः परतः स्फी इत्ययं दन्त्यपवर्गाद्वितीयचतुर्थस्वरोपेत आदेशो विकल्पेन भवेत् । स्त्रियां क्तिरिति क्तिप्रत्यये तु निषेधस्तेन द्वितीयस्वरादिरेव । अथ स्फातिर्वृद्धौ इति हेमकोशे ।
११०
तस्मिन्वर्षे चतुर्मासीकरणानन्तरं मुदा 1 आगरानगरात्सोरीपुरेऽगात् सूरिरुत्तमः 11 ८६॥