________________
स्वरूपं एतत्स्वरूपं तत्कर्मतापन्नम् । चः पुन: पारमेश्वरी परमेश्वरस्य प्राप्तिं च लाभं त्वं पातिसाहे! अकबर! 'शृणु ।
तद्यथा-दर्शनानि हि षट् सन्ति सन्ति तद्गुरवोऽ षट्। शासनान्तरभेदेन गुरवो बहवोऽपि च ॥ ५१॥ बुद्धेशानादयस्तेषां देवास्सद्गुरवोऽपि च । विषयादौ सदा सक्ताः सम्यग् जानाति तान् भवान् ॥५२॥ धर्मोऽपि तादृशस्तेषां विषयादौ प्रवर्तनात् । तपस्सु च फलादीनामाहारानिशि भोजनात् ॥ ५३॥
- -इत्यपरशासने गुरोर्धर्मस्य च स्वरूपम् । तेषां मध्यादिमं जैन धर्मं शुश्रूषसि प्रभो ! । श्रोतुं तं च त्वमोऽसि मां ब्रुवन्तं च तं शृणु ॥ ५४॥ साधुश्रावकभेदाभ्यां धर्मोऽयमुदितो द्विधा । पञ्चव्रतो यतीनां स्यात्, श्राद्धानां द्वादशव्रतः ॥ ५५॥ इति सत्यपि भेदेऽस्मिन् सर्वसाधारणः खलु । धर्मोऽभिप्रेत एवायमहिंसा १ संयमः २ तपः ३ ॥५६॥ धर्मोऽयं तीर्थकृतप्रोक्तो दायी स्वर्गापवर्गयोः । क्रियमाणः । सदा लोकैरेतद्दोषविवर्जितः ॥ ५७॥
-इति धर्मस्वरूपम् । जीवलोकस्य यो बन्धुर्दुर्गत्यम्बुधिपारगः । ज्ञानादिना महाभागो गुरुः स शिवसाधकः ॥ ५८॥ क्षीरास्रववचा नित्यं मध्वास्रववचा ध्रुवम् । शिक्षां धर्मोपदेशं च यो दत्ते स गुरुर्मतः ॥ ५९॥
५९ - चक्रवर्तिसम्बन्धिनो गोलक्षस्य भक्षितेक्षुक्षेत्रस्य आदिविशेषस्य अर्धार्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः सम्बन्धि यत्क्षीरं तदिव DOORS 2007