________________
गन्धारबन्दिर श्रीमत्सर्वसङ्गसमक्षकम्
11
तदा सङ्घो हृदानन्दत् श्रुत्वा तल्लिखितं वचः । प्रेष्येभ्यश्च ददौ द्रव्यं वाञ्छितं जीवितोचितम् ॥ ३५ ॥
बुबोधयिषया तस्य सङ्घमापृच्छ्य सोऽचलत्। साधुभिः सह सच्छ्ररैर्भूपवद्दिग्जिगीषया ॥ ३६ ॥
--
३४॥
साधयन् द्विषतो लोकान् श्राद्धांश्च प्रतिबोधयन् । स्थापयन् सुकृते स्वीयानन्यांश्चोत्थापयन्नघात् ॥ ३७॥
३७ तत्र गन्धारबन्दिरे; तं श्रीहीरविजयसूरिं । तस्य श्रीहीरविजयसूरेः कराम्भोजं करकमलं तत्कराम्भोजं तस्मिन् । तस्मिन्ं पातिसाहावकब्बरे । तस्य पातिसाहेरकब्बरस्य बुबोधयिषा धर्मादौ बोधयितुमिच्छा तया बुबोधयिषया ॥ किं कुर्वन् द्विषतो लोकान् प्रतिवादिनो जनान् साधयन्; चः पुनः श्राद्धान् अर्थात् अपरपरशासनधर्मान् सिद्धान्तानुसारेण स्वमुखप्ररूपितधर्मं श्रद्धावतो लोकान् प्रतिबोधयन् ज्ञापयन् 1 पुनः किं कुर्वन् । स्वीयान् प्रस्तावान् स्वमुखप्ररूपितधर्मकारिणो निजान् लोकान् सुकृते धर्मे स्थापयन् । पुनः किं० ? चः पुनः अन्यान् प्रमारादिकान् राजादीन् माहेश्वरादिधर्मकारिणो वा लोकान् अघात् पापात् द्वीन्द्रियादिपञ्चेन्द्रियजीवव्यापादनलक्षणात् उत्थापयन् प्रायश्चित्तालोचनादिना निवारयन् इत्यर्थः । भूपपक्षे द्विषतो लोकान् वैरिणो जनान् श्राद्धान् अर्थात्स्वसेवाज्ञाकरणे श्रद्धावतः सेवकान्, न्याये प्रवर्तध्वं अन्यायान्नि - वर्तध्वमिति प्रतिबोधयन् ज्ञापयन्, स्वीयान् आत्मीयान् प्रस्तावात् पुत्रादीन् सगोत्रान् सुकृते राज्यसम्बन्धिनि प्रधानकर्मणि पुण्ये वा स्थापयन्, अन्यान् पुत्रादिसगोत्रेभ्योऽपरान् ग्रामनगरवासिनो जनान् अघात् चौर्याब्रह्मचर्यादिलक्षणात् पापात् उत्थापयन् दण्डादिदानेननिराकुर्वन् इत्यर्थः ।
विहरन् स क्रमेणैवं जिनवत्समवासरत् । आगरानगराभ्यर्णे फत्तेपुरपुरे बहिः 11 ३८॥
एकीभूय ततः सङ्घस्तत्रत्योऽतिमहोत्सवात् । गत्वा चाभिमुखं नत्वा पुरान्तस्तं समानयत् ॥ ३९॥
१०५ el