SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ख्यातोऽवदात एतादृक् श्रुतपूर्वो न कस्यचित्। तमवाप यदा सूरिरासील्लोके तदाद्भुतम् ॥ २३॥ यदीयोपशमादीनां गुणानां सत्यवर्णनाम् । प्रधानपुरुषैः प्रोत्कमशृणोदेकदा तदा ॥ २४॥ कालेऽस्मिन्नीदृशः कः स्यादिति चित्तेचमत्कृतः।। तदेत्यचिन्तयच्चित्ते पातिसाहिरकब्बरः ॥ २५॥ [ -युग्मम् । इत्यचिन्तयत्-इतीति किं तदाह तमाकार्य निरीक्षेय परीक्षेय च तद्गुणान् । .. पृच्छेयं च वृषः कीदृक् ततो वन्देय भक्तितः ॥ २६॥ सोऽभ्यपृच्छत्तदा चैवं प्रधानपुरुषान्प्रति ।। विचरत्यधुना कुत्र क्व च तिष्ठति तद्वद ॥ २७॥ ते प्राहुस्तद्वचःप्रीता इति प्राञ्जलयस्तदा । गन्धारबन्दिरे स्वामिन्, सूरिर्वसति सम्प्रति ॥ २८ ॥ आकर्येत्युभयाकर्णि जातरोमाञ्चिताङ्गरुक् ।। कदागच्छेत्कदा तं च देयौत्सुक्यतस्त्विति ॥ २९॥ फुरमानं तदाहूत्यै लेखयामि तदाद्भुतम् । स्वीयनामाङ्कितं सत्यमिति चित्ते व्यचिन्तयत् ॥ ३०॥ लेखयित्वा तदा दिव्यं सकाशात्स्वनियागिनः। फुरमानं घनामानबहुमानमनोहितम् ॥ ३१॥ आज्ञाविधायिनो विज्ञान्स प्रेष्यान् प्रेषयत्तराम्। तेषां पाणौ च दत्त्वाशु प्रति गन्धारबन्दिरम् ॥ ३२॥ ततश्च तत्र ते गत्वा नत्वा तं भ्रमरायितम् । विदधुस्तत्कराम्भोजे फुरमानं मनोहरम् ॥ ३३॥ ततः प्रतीमनाः सूरिः फुरमानमवाचयत् । PODO[80xOTO
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy