SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ बिम्बानि कुन्थुनाथस्य प्रत्यतिष्ठद्य उत्सवात् । सीरोहीनगरे भाति स हीरविजयो गुरुः ॥ १६॥ तथा नारदपुर्यां यः प्रत्यतिष्ठन्महोत्सवात् । जिनबिम्बान्यनेकानि स सूरिर्वर्तते भुवि ॥ १७॥ 1 श्रीस्तम्भतीर्थ- पत्तन - श्रीराजनगरादिषु सहस्रशोऽर्हतां बिम्बप्रतिष्ठां सोऽस्ति यो व्यधात् ॥ १८ ॥ लुङ्कामतपतिर्बुद्धः स ललौ मेघजी ऋषिः । दीक्षां नवीनां यस्याग्रे स सूरिर्भुवि भासते ॥ १९॥ श्रीमत्यहम्मदावादन गरे नरोत्तमे 1 ज्ञात्वा लुङ्कामतैश्वर्यमिति दुर्गतिकारणम् ॥ २०॥ ... आधिपत्यं च दीक्षां चं त्यक्त्वा लुङ्कामतस्य हि । साधुभिः पञ्चविंशत्या संयुतोऽर्हन्मतौ रतः ॥ २१॥ सूरिसेवैकचितोऽदात् पातिसाहिरकब्बरः । स्ववादित्राण्यनेकानि यस्य दीक्षामहोत्सवे ॥ २२॥ - चतुर्भिर्विशेषकम् ॥ १९-२२ स सूरिः श्रीहीरविजयसूरिर्भुवि भासते शोभते । स कः यस्य श्री हीरविंजयसूरेरग्रे स मेघजी ऋषिर्नवीनां दीक्षां ललौ । कथंभूतो मेघजीऋषिः लुङ्कामतपतिः । पुन कथंभूतो मेघजीऋषिर्बुद्धः प्रतिबुद्धः अर्हत्प्रतिमापूजावन्द-नादीनामाम्नानात् । किं कृत्वा ? लुङ्कामतैश्वर्यं दुर्गतिकारणमिति ज्ञात्वा । क्व दीक्षां ललौ ? श्रीमति अहम्मदावादनगरे । कथंभूते नगरोत्तमे । पुनः किं कृत्वा हि निश्चितं लुङ्कामत्तस्य आधिपत्यं पुनर्दीक्षां त्यक्त्वा । पुनः कथं० मेघजीऋषिः । पञ्चविंशत्या साधुभिः संयुतः । पुनः कथं० अर्हन्मतौ रतः अर्थात् अर्हत्प्रतिमाया अस्तित्वपूजनप्रणमनादीनङ्गीकरणे रतः । स कः ? यस्य मेघजीऋषेर्दीक्षा महोत्सवे अकब्बर पातिसाहि: अनेकानि स्ववादित्राण्यदात् । कथं० अकब्बरपातिसाहिः सूरिसेवैकचितः - सूरेः श्रीहीरविजयसाम्नो भट्टारकस्य सेवायां एकं चित्तं यस्य स तथा । मेघजी ऋषिरित्यत्र ऋइत्यक इति प्रकृतिभावः । Ple १०३
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy