SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीवल्लभपाठक रचित विजयदेवमाहात्म्यगत श्रीहीरविजयसूरिसंदर्भः हीरविजयसूरिराट् तत्पट्टमुद्रिकाहीरो सोऽष्टपञ्चाशत्पट्टलक्ष्म्या लसति विष्णुवत् ॥ ११ ॥ ११ स हीरविजयसूरिराट् अष्टपञ्चाशत्पट्टलक्ष्म्या लसति क्रीडते । किं वत् ? विष्णुवत् नारायण इव । स कः ? यत्तदोर्नित्याभिसम्बन्धात् - यः तत्पट्टमुद्रिकाहीरः श्रीविजयदानसूरिपट्टरूपमुद्रिकायां हीरोपमः अधिक्शोभाविधायित्वात् । श्रीहीरविजयसूरीणां विक्रमनृपात् त्र्यशीत्यधिके पञ्चदशशत वर्षे १५८३ मार्गशीर्षशुदि नवमीदिने प्राल्हादनपुरवास्तव्यः श्रीऊकेशज्ञातीय साह कुंरा भार्या नाथी गृहे जन्म, षण्णवत्यधिके पञ्चदशशतवर्षे १५९६ कार्तिकवदि द्वितीयादिने पत्तननगरे दीक्षा, सप्ताधिके षोडशतवर्षे १६०७ नारदपुर्यां श्रीऋषभदेव प्रासादे पण्डितपदम्, अष्टाधिके षोडशशतवर्षे १६०८ माघसुदिपञ्चमीदिने नारदपुर्यां श्री वरकाणकपार्श्वनाथसनाथे श्रीनेमिनाथप्रासादे वाचकपदम्, पञ्चदशाधिके षोडशशतवर्षे १६१५ सीरोहीनगरे सूरिपदं बभूवेति । - यस्य सौभाग्यवैराग्यनिःस्पृहत्वादिसद्गुणैः । रञ्जितः स्तम्भतीर्थस्य व्ययं सङ्घो व्यधादिति ॥ १२ ॥ इतीति किं तदाह - व्याख्यानादिषु कार्येषु कार्येषु वरसूरिभिः । कोटिमेकां सटङ्कानां तस्मिन्नव्यययत् स्थिते ॥ १३॥ १२-१३–स श्रीस्तम्भतीर्थवासी सङ्घः तस्मिन् श्रीहीरविजयसूरौ स्थिते एकां टङ्कानां कोटिं अव्ययत् प्रभावनादिभिर्द्रव्यव्ययं चकार । व्ययण् वित्तसमुत्सर्गे चुरादौ अदन्तः परस्मैपदी । केषु व्याख्यानादिषु कार्येषु कर्मसु कथंभूतेषु वरसूरिभिः कार्येषु । यस्य प्रतिपदं पादपद्मन्यासे सदाऽभवत् । सुवर्णटङ्करूप्यादि नाणकानां प्रमोचनम् ॥ १४॥ मुक्ताफलादिभिर्दीव्यैर्बहुमूल्यैः शुभप्रदम् रचनं स्वस्तिकानां च पुरतस्सोभिनन्द्विति । युग्मम् । ॥ १५॥ TOON C NOCK १०२
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy