________________
॥ भानुचन्द्रप्रभावः ॥ भानुचन्द्रोऽपि शिष्यः स, सूरेराख्यामतिष्ठिपत् । राज्ञः शिरसि हस्तं, च धृत्वारोगमनाशयत् ॥ २४० ॥ ॥ शुद्वचारित्रप्रभावात् पश्चशतानि गावो मोचिताः ॥ चारित्रस्य प्रभावोऽयं, ज्ञातो राज्ञाऽनुभूतितः ।
हिंस्याः पञ्चशतं गावः, त्याजिताः क्रूरदानवात् ॥ २४१ ॥ ॥ भानुचन्द्रस्य सततोपदेशात् शाहः सिद्धगिरेः करं गवां हिंसाश्च मुक्तवान् ॥
शाहेन संचरन् भानुः, प्रयाणे देशनां ददत् ।। .. सिद्धाचलकरं राज्ञः, प्राप्यादेशममोचयत् ॥ २४२ ॥ गोमहिष्यादिजन्तूनां, शाहो हिंसामरोधयत् ।
सम्राडागत्य लाहोरं, बबन्धोपाश्रयं महत् ॥ २४३ ॥ ॥ भानुचन्द्रस्य स्नात्रपाठंफलं तथा तस्य शाहप्रदत्तवाचकपदम् ॥
उद्धृत्य बालपुत्रीं तु, दयाधर्ममबोधयत् । स्नात्रस्यपठनाच्छान्तिं भानुचन्द्रो व्यधात् मुनिः ॥ २४४ ॥
सहस्राख्यां नृपः शृण्वन्, चकार सूर्यसाधनम् । भानुञ्च वाचकं चक्रे, शाहो हीरानुशासनात् ॥ २४५ ॥ ॥ शाहस्याध्यक्षतायां पण्डितानां समक्षे सेनसूरेविजयः ॥ सेनसूरेर्महत्वस्य, वर्णनं न भवेदिह । शाहस्यहि सभां प्राप्य, विजयं लब्धवान् सुधीः ॥ २४६ ।। जैन नास्तिकमाचख्यौ, सूर्यं नहि सुसेवते । . मन्यतेऽपूतगंगोदं, प्रश्नास्तु चलितास्तदा ॥ २४७॥ मुग्धास्तु पण्डिताः सर्वे, सेनसूरेस्तु सम्मुखे । सेनसूरेस्तु मान्यत्वे, राजा तु संमतिं ददौ ॥ २४८ ॥