________________
- ॥ सूरीश्वरस्य साधुसंख्या ॥ नापारमस्य पुण्यान्तं, वीरधर्मानुयायिनः । . दयादानतपे भक्त्या, शिष्यास्तु बहुशोऽभवन् ॥ २३० ॥
सप्तोत्तरशतं साधून, पण्डितंपदमर्पयत् । रचयामास सप्तोपाध्यायांश्च गुणधारिणः ॥ २३१ ॥ द्विसहस्रं तु साधूनां गण्यमानोऽभवद् गुरुः । धर्मे व्ययीकृता लक्षाः, ऋद्धिमद्भविकैर्मुदा ॥ २३२ ॥ शान्तिचन्द्रश्च भानुश्च, सूरेराख्यामदीपयत् ।
विजयसेनसूरिस्त्व-भूषयत् पट्टधारिताम् ॥ २३३ ॥ ॥ लाहोरस्योपवने शाहस्यान्तिके आगत हुमायूँ शान्तिचन्द्रयोश्चमत्कारः ॥
लाहोरोपवने शाहः, · शान्तिचन्द्रेण संलपन् । हुमायूँ वाहनारूढरागत्योपायनं फलैः ॥ २३४ ॥ अमिलतां पितापुत्रौ, हुमायूँ वसतिं गतः । शान्तिचन्द्रचमत्कारं, · दृष्ट्वा शाहोऽतिनन्दितः ॥ २३५ ।। ‘अटकराज्यमानेतुं, सम्राडतिक्रमं व्यधात् ।।
गते बहुतिथे राजा, न किञ्चित्फलमाप्तवान् ॥ २३६.॥ ....पूर्णो गर्तोहि फूत्कारात्, द्वितीयाद् वप्रसंहतिः । ___तृतीयाच्छान्तिचन्द्रस्य, भेरी शाहस्य वादिता ॥ २३७ ॥ ॥ शतावधानिशान्तिचन्द्रप्रभावतः शाहेन जिजियावेरो हिंसा च निरुद्धा ॥
· अहिंसैतत्प्रभावन्तु, विलोक्य जिजिया महन् ।
शतावधानिशान्तिस्तु, शाहे दयामपूरयत् ॥ २३८ ॥ 'ईदे' पर्वणि सर्वत्र, शाहो हिंसामरोधयत् । प्रतिवर्षं तु षण्मासान्, दयां जीवेष्वपालयत् ॥ २३९ ॥