________________
शैथिल्ये जीर्णकायस्य, रोगः सूरेः समाविशत् ।
साधुसंघगताचिन्ता, सूरेया॑नं जिनेश्वरे ॥ २०७॥ ॥ लाहोरतः सेनसूरिं आह्वयत् रोगावस्थायामपि पर्युषणे सूरिरुपादिशच्च ॥
लाहोरादागते सेन-सूरौ हि मेलनं विना । रुग्णत्वेऽपि च व्याचष्टे, पyषणसुपर्वणि ॥ २०८ ॥ शाश्वतात्माविनाशीति, चरमा देशना गुरोः । जीवनं साध्यतां साधो, वीरधर्मस्य संग्रहात् ॥ २०९ ॥
. ॥ सूरीश्वरस्य निर्वाणम् ॥ द्विपञ्चषट्चन्द्रवर्षे जनानां दु:खदायके । भाद्रे विष्णुतिथौ सायं, शुद्धिं, कृत्वा गुरुर्जगौ ॥ २१०॥ क्षम्यतामपराधो नः, व्यहसत्तु गुरुः सुधीः । आत्मध्याने तु लीनोऽभूत्, तदा योगमसाधयत् ॥ २११ ॥ ततः स्वर्गं ययौ सूरिः, शोकव्याप्तमहीतलम् । तदा हाहाऽरुदन्, सर्वे, शोकनिश्चेष्टचेतसा ॥ २१२ ॥
वीरशासन सूर्योऽस्तं गतः प्रभां प्रकाशयन् ॥ - आर्चयत् चरणौ प्रीत्या, उनाग्रामे प्रभावतः ॥ २१३ ॥ सूरिः सर्वत्रार्यसंस्कृतिमपीप्रथत् धर्मध्वजाश्चाकम्पयच्च ॥ जीवनं सफलं नीतः, कायं धृत्वा तु भूतले । पृथिव्यामार्यसंस्कारं, प्रथयामास काव्यतः ॥ २१४ ॥
हीरस्य जीवनं हीरं, चरित्रञ्चाद्भुतं ध्रुवम् । .... ' हिताय जगतां हीरः, भूतोऽस्मिन् जगतीतले ॥ २१५ ॥ . पताकां कम्पयामास, धर्मस्य रक्षतो महान् । अभेदेन च साम्येन, सत्यधर्ममदीपयत् ॥ २१६॥
॥ सूरेस्तपश्चर्या ॥ सूरीन्दुरेकाशनकं न यावज्जीवं जहौ न्यायमिवक्षितीन्द्रः । पञ्चापि चासौविकृतीरहासीद्, गुणान् स्मरस्येव पराबुभूषुः ॥ २१७ ॥ BAIETIVOBOO