________________
भ्रमन् सूरिः प्रतिग्राम,-मजयत् मानसं गुरुः । ..
प्रभावं पातयित्वा तु, जनकार्यमसाधयत् ॥ १९७॥ ॥ सूरीश्वरः संघेन सह सिद्धगिरौ गतस्तत्र संघेशोऽपि यात्रायै सहागतः ॥
महामहोत्सवात् सूरिः, पादलिप्तमगात्सुखम् । द्वयधिकासप्ततिः संघा-धिपतिः सूरिणाऽमिलत् ॥ १९८ ॥ असंख्या, यात्रिका देशात्, विदेशादागताः सुखम् ।
सहस्रं साधवः सूरे - रासन्नाज्ञानुसारिणः ॥ १९९॥ ॥ एकसहस्रसाधुसहितसूरेः सोरठसूबा धनाढ्यैश्च सन्मानं सामयिकश्चाकरोत् ॥
जानन्वै सोरठे सूबा सूरेर्मानं व्यधाद् बहुः । ... सामयिक व्यधात्प्रेम्णा मत्वा देवसमं गुरुम् ॥ २०० ॥ सूरि सन्मान्य श्रीमन्तोऽपूजयन् स्वर्णमुद्रया । . .
व्यधुर्महोत्सवं लक्षैर्द्रव्यैस्तत्र पुनः पुनः ॥ २०१॥ ॥ सूरिनवटूंके देववन्दनं विधाय स्थाने स्थाने उपदिश्य वीरधर्मप्रभावमपीप्रथत् ॥
सिद्धे. सिद्धानले नून-मादिनाथनतिं व्यधात् । नवटूंके हि देवांश्च, नत्वा सूरिरमोदत ॥ २०२।। स्थले स्थले दिशन् सूरिः, यात्रिकानां सदः प्रति ।
गानं च वीरधर्माणां, कुर्वन् वीरसमोऽभवत् ॥ २०३॥ ॥ दीवबन्दरे प्रयाणं विधाय सूरि: लाडीबाईसंघयोरभिलाषां पूरयित्वा उनायां सन्मानं लब्धवान् ॥
संघस्य भावनापूर्णा, लाडीबाय्यास्तु: प्रेमतः । दीवबन्दरमायातः, सूरिस्तु निश्चयं व्यधात् । २०४॥ लाडीबाय्याः गत कुष्ठ-मिति सुरेरनुग्रहः । उनायामाव्रजन् संघ:, बहुमानमदात् गुगेः ॥ २०५॥
॥ सूरेः रोगग्रस्तशरीरम् ॥ यादृशं यस्य निर्माणं, न तन्मिथ्या भवेत् क्वचित् । .
उदयास्ते गती सर्वेषामिदं शास्त्रमुजगों ॥ २०६॥ COOCOLERE BOTTICO