________________
॥ पत्तनस्थ सूबोपरि सूरेदृष्टिप्रभावः ॥ नवोत्तरे ‘तु चत्वारिं-शे वर्षेऽभूत्तु पत्तने । कासीमखानसूबा हि, सूरीश्वरं समाह्वयत् ॥ १८७ ॥ शिथिला तस्य सत्ताऽभूत्, सूरीशमभिपश्यतः । यदर्थं सत्तयाऽऽहूतः, विस्मृतं तद्दि तत्क्षणात् ॥ १८८॥ ॥ सूरिवर्णित स्थावरादि जीवभेदाः पुण्यपापमार्गञ्च ॥ जीवो हि जीवमत्त्यत्रा-पराधः शतशो भवेत् । जीवानां भेदमाख्याय, महादोषमदर्शयत् ॥ १८९॥ पुण्यपापपथं चख्यौ, दत्वा दृष्टान्तमुत्तमम् ।
सूरेः कथनमाकर्ण्य, सूबाहदि दयाऽभवत् ॥ १९० ॥ - ॥ सूरेरुपदेशतः सूबातः त्यक्तप्राणिनः, सूबाप्रार्थनया गच्छे तेजसागरसामलसागरयोरानयनश्च ॥
स सूबाऽचकथत् सूरि, कार्यमादिश्यतां गुरो । निगृहीतमूकजीवांस्तु, सूरिरत्याजयत् तदा ॥ १९१ ॥ सूबाप्रार्थनया सूरिः, गच्छे निन्येऽपराधिनौ । तेजसामलनामानौ, · सागरौ सागरोपमौ ॥ १९२॥ · ॥ सिद्धाचलसंघः पत्तनात् राजनगरे समागतः ॥ प्रीत्या महार्धरत्नेन पट्टवस्त्रादिभिः सह ।
गुरुं महोपदेष्टारं सूबा सूरिमपूजयत् ॥ १९३ ॥ सिंद्धाचलस्य यात्रायै, पञ्चाशति तु षोडशे (१६५०) । .. निरगच्छन्महासंघः राजनगरं समागतः ॥ १९४॥
पत्तनस्थो मुरादा हि, व्यवस्थामकरोन्मुदा । आसीत्संघेन सूरिस्तु, सूबा मानमपूरयत् ॥ १९५ ॥
॥ सूरेः सूबां प्रति सदुपदेशः ॥ इच्छां विज्ञाय सूरिस्तु, मुरादामुपदिष्टवान् । . धर्मं न्यायञ्च नीतिञ्च, सद्वर्तनमुपादिशत् ॥ १९६ ॥ DIE 84.22