________________
॥ पत्तने प्रजाशोषककलाखान सूबाऽधिकारिणः सूरिकृतसद्बोधः ॥
पत्तने हि कलाखानः, प्रजावर्गस्य शोषकः । त्राहि त्राह्यवदल्लोको, ऽसहमान उपद्रवान् ॥ १६८ ॥ पत्तने हीरसूरिस्तु, आगतः षोडशे शते ॥ त्रिंशे उपाथये धर्म-व्याख्यानं कर्तुमारभत् ॥ १६९ ॥ स्वगेहमानयत् सूरि, प्रशंसामशृणोत् यदा । सूर्यचन्द्रगतेः प्रश्नं सूचा तु व्यदध तदा ॥ १७० ॥ स्पष्टोत्तरमदात् सूरिः, ज्ञातवान् सहि दुर्लभम् ।।
सूबाचेतस्यभूद्भावः शृण्वन् सूरिसुधागिरः ॥ १७१॥ ॥ सूरिः सदुपदेशात् सूबातः अपराधिनोऽनपराधिनश्च लोकान् कारागारात् · अमोचयत् मासैकं हिंसानिरोधमकारयत् अजमेराद् गुर्जरं प्रातिष्ठच्च ॥
याचस्व त्वं यथाकामं, प्रीत: सूबाऽगदद् गुरुम् । दुःखमुक्तविधानाय, निगृहितस्य मोचनम् ॥ १७२ ॥ जगाद हीरसूरिर्वं, ततो मुक्तास्तु तेऽभवन् । जीवहिंसा निरोधाऽभूत्, सूरिराजस्य वाक्यनः ॥ १७३ ॥
सूरेः प्रबोधतो लोके हितस्य सुव्यवस्थितिम् । - कारयामास सूबा स, लोके कीर्तिमवाप्तवान् ॥ १७४॥ . अंजमेराद् विहारं तु, कृत्वा सूरिस्तु गुर्जरम् । समागतः प्रबोधं च, मार्गे मानमवाप्नुवन् ॥ १७५ ॥
षोडशे तु त्रिचत्वारि-शे सिरोहीमगाद् गुरु । ... धर्मोपदेशनाद् राज्ञः, जनकार्यमसाधयत् ॥ १७६ ॥ ॥सिरोहीमहाराज प्रबोध्य कारागारात् श्रावकानमोचयत् आचाम्लतपसः समाराधनाञ्चाकारयत् ॥
निगृहीताः शतं जैना, राज्ञोपद्रवकारिणा ।
उपदेशनतः सूरे, मुक्ता, राज्ञाऽतिमानतः ॥ १७७ ॥ DOBILI
A
AOON
C220