________________
॥ अभिरामाबादे सूरेः चतुर्मास्या || जनताचित्तहृत्सूरिः, प्रतस्थौ प्रेमतस्ततः औदार्येणाकरोच्छाहः, बहुमानं गुरोस्तदा ॥ १५८॥
1
षोडशे शतके चत्वारिंशे तु द्वयधिके कृता । रामावादे चतुर्मास्या, हरताऽज्ञानसंतमः
॥ १५९॥
॥ अजमेरे सूरेरागमनं संघकृतमहोत्सवश्च ॥ अजमेरागते सूरौ, संघेन विहितोत्सवः निमन्त्रितः सुबाखानः, खानेन बहुधादरात् ॥ १६०॥
ईश्वरो रूप्यरूपो वा, मूर्तेस्तु पूजनं मृषा । सुबाख्यानस्य तं प्रश्नं, श्रुत्वा सूरिः समादधे ॥ १६१॥
॥ सूरेः समाधानात् सुबाखानः प्रसन्नो भूत्वा सूरये उपहारं ददौ सूरिस्तु तन्नाददे ॥ ध्याता ध्यानञ्च ध्येयञ्च ज्ञायते बुद्धितो जनैः ।
जगदीशं तु निश्चेतुमरूपं रूपी च कथ्यते ॥ १६२ ॥
नम्याद् रूपं विना ध्यानं, ततो मूर्तिरपेक्षिता भावेनेश्वरमर्चन्तो लभन्ते तत्स्वरूपताम्
||
प्रसन्नोऽचकथत् सुबो-पहारो' गृह्यतां गुरो । जगौ सूरिरयं साधो - रुपाधिः सर्वनाशकृत् ॥ १६४॥
१६३॥
त्यक्तवानस्मि संसारं ततः किं माययाऽमुया । न किञ्चिन्मम कार्याय, सत्यं मन्यस्व मे वचः ॥ १६५ ॥
९२
॥ सुबाकृतसूरिसम्राट्प्रशंसा ॥
आसीत् परिचितः सूबा, प्रभावत्वद्य ज्ञातवान् । सूरिं सूबा जगौ मत्वा, राज्ञस्ताजमदीपयः ॥ १६६॥
महाराजन्तु राजानं, सूबाञ्चोपदिदेश सः 1. समये हीरसूरिस्तु, वीरधर्ममतिष्ठिपत्
11 १६७॥