________________
आज्ञाया: पालनं कृत्वा, शाहः सूरेः स्तुतिं व्यधात् । प्रलेख्यादेशपत्रं च, देशाधिकारिणे ददौ ॥ १४८ ॥ सूरये प्रतिपत्रं च, ददौ मुद्राङ्कितं नृपः । जीवसंरक्षणानेकं, कार्यन्तु बहुधा कृतम् ॥ १४९ ।।
॥ अनेक तीर्थयात्रा कुर्वतः सूरेमथुराऽऽगमनम् ॥ नैकत्रोवाऽवसत्सूरिः तीर्थयात्रां सदाऽकरोत् । विधाप्य धर्मकार्याणि, श्रावकेन सदा भ्रमन् ॥ १५० ॥ संपश्यन् पार्श्वनाथ च, मथुरायां गतो गुरुः ।
नत्वा ऋषभदेवञ्च, जीवनानन्दमालभत् ॥ १५१॥ ॥आगरायां चतुर्मासी विधाय फतेहपुरसिक्री प्रति पुनः सूरेः समागमः गुर्जरं प्रति गमनविचारश्च ॥
आग्रायाञ्च चतुर्मास्यां, कृत्वा षोडशके शते । एकचत्वारिंशके चाधिकेऽब्दे सिक्रयां गतो गुरुः ॥ १५२ ॥ आसीत् शाहस्तदा तत्र, मिलित्वाचकथद् गुरुः । गन्तव्यं गुर्जरं राजन्, शाहेनाङ्गीकृतं मुदा ॥ १५३ ॥ * ॥ राज्ञः कनात् सूरिः शाहस्यान्तिके शान्तिचन्द्रमस्थापयत् ॥ . जिज्ञासुः प्रार्थयच्छाहः योग्यैकमुनिरत्र मे ।
ज्ञानार्थं. सत्यधर्मस्य, न्यसनीयो दयानिधे ॥ १५४॥ . ... दंष्ट्वा श्रद्धान्तु शाहस्य, शान्तिचन्द्रस्तु रक्षितः । . प्रेषितुं सेनसूरिं वाचकथत् फुल्लचेतसा ॥ १५५॥ ॥ गुर्जरं प्रति प्रतिष्ठता सूरिणा सम्राजे दत्ताशी: सम्राजा च कृतोत्कृष्टसन्मानम् ॥
' समाचारं गते संघे, औदासिन्यं समागतम् । प्रबोध्य साधुधर्मं तु, सर्वशान्तिमदाद् गुरुः ॥ १५६ ॥ प्रीत्या संप्राप्तसन्मानः, राजसंघाशिषं ददौ । . विस्मर्तव्यो न सद्धर्मः रक्षतात् करुणेश्वरः ॥ १५७॥ MOL ९१ PM