________________
॥ राजसभायां राज्ञा प्रदत्तायाः सूरेर्जगद्गुरु पदव्याः प्रसंगे बन्धनतो जीवमुक्तिः ॥
सत्यनिस्पृहतावाक्यात्, सूरौ शाहो ननन्द हि ।। जगद्गुरोः पदं दत्तम्, राज्ञां सदसि तूत्सवात् ॥ १३८॥ शुभप्रसंग संस्मृत्वा, मुक्ताजीवास्तु बन्धनात् ।। मृग प्रभृतयः सर्वे, आदिश्य स्नेहभागमून् ॥ १३९॥ बीरबलादयः शाह, श्चेकदा यत्र ‘संस्थिताः । । . शान्तिचन्द्रेण सार्धन्तु, सूरिस्तत्र समाययौ ॥ १४० ॥ प्रमोदेनावदत्शाहः, सूरे किञ्चित्तु याच्यताम् । कारागारे स्थितान् लोकान्, मुञ्च भूपागदद् गुरुः ॥ १४१ ॥
॥ सूरेः स्पष्टकथनात् बीरबलकृतसूरिप्रशंसा ॥ . . शाहस्य चाप्यभूदिच्छा, सूरेर्दयामवेक्षतः ।'. सर्वापराधिनो मुक्ताः मोचनीया, न ये स्थिताः ॥ १४२ ॥ सूरि बीरबलोऽपृच्छत्, गुणी वा निर्गुणी शिवः । ज्ञानेनास्ति गुणीसोऽपि, प्रचख्ये सूरिणा शिवः ॥ १४३ ॥ सूरेः सुस्पष्टवाक्यात्तु, बुद्धौ बीरबलो नृपः । औदार्यवचनं चख्यौ, सूरेर्धन्यं हि जीवनम् ॥ १४४ ॥ अलभ्यन्तु ददौ मह्यं, अमूल्यसमयव्ययात् ।
सूरिमकथयत् शाहः, कार्यमादिश्यतां गुरो ॥ १४५ ॥ ॥सूरिः जनकल्याणाय राज्ञः सकाशात् प्रतिबद्धजिजियाकरं तीर्थंकरं च मोचनमयाचत ॥
नास्ति किञ्चिन्मदावश्यं जनाय याच्यते नृप । दुःखदो जिजियावेरः त्यज्यतामवनीपते ॥ १४६ ॥ तीर्थंकरोऽपि तु त्याज्यः, परमार्थाय यद् भवेत् । स्थाम्यति भवतो नाम, पूजिष्यते जनः सदा ॥ १४७॥
BOOOOOOOOOO