________________
॥ आगरायां हिंसात्यागस्तथा श्रीपार्श्वनाथप्रतिष्ठामहोत्सवः ॥ सहाश्चर्येण शाहेन, सूरिर्गुरुपदे कृतः I देशना श्रवणात्सूरे:, हृदये प्रीतिमाप्तवान् ॥ १०६॥ बभूवाग्राचतुर्मास्या, संघस्याग्रहतो गुरोः । पर्युषणे कृतादेशान्नाऽभूत्हिंसा हि मानवात् ॥ १०७॥ कृत्वा शौरिपुरे यात्रां, पुनराग्रां गतो गुरुः । प्रतिष्ठां पार्श्वनाथस्य, कृत्वा सूरिर्मुमोद हि ॥ १०८॥
कृत्वा शासनकार्याणि, प्राख्यापयत् स्वकं यशः । संघस्य 'कामना पूर्णा, स्वीचक्रे धर्मभावनाम् ॥ १०९॥
॥ अकबरसूर्योः धर्मचर्चा ॥ फतेहपुरसीक्रियां सूरिं शाहों मुदाह्वयत् 1 धर्मचर्चा विधानाय, सूरिणा हि मनस्विना ॥ ११०॥
संगमस्य शुभे काले, विषयानेकचर्चनात् । उपदेशाच्च सुरेस्तु शाह आनन्दितोऽभवत् ॥ १११॥ विदुषा विदुषां मेले, ज्ञानंगोष्ठी भवेन्मुदा । फजलेन गुरोर्मेलश्चेत्थं तु बहुशोऽभवत् ॥ ११२ ॥
गण्यमानी गुणग्राही, पण्डितः फजलो महान् । शाहस्य विदुषां वृन्दे, सोऽपूर्वो वर्ण्यते जनैः ॥ ११३॥
. एकदा तु प्रसंगोऽभूत्, सम्यग् धर्मस्य चर्चतः । फंजलेन गुरोर्नूनं, अकबरो ऽप्युपागतः || ११४॥
योग्यासनेऽविशत्साहो, विनोदं हृदये वहन् । गुरोरुदेशवार्तां च, शुश्राव शान्तचेतसा ||
११५॥
प्राशंसत् गुरुं शाहः, भवतोपकृतं बहु 1 प्रबोध्य सत्यं धर्मं तु मनसो मे तमोऽहरत् ॥ ११६॥
८७