________________
प्रतिदानं तु नायच्छं प्रार्थ्यतां चित्तवांछितम् । यत्प्रार्थ्यते त्वया स्वामिन् तदवश्यं प्रदास्यते ॥ ११७ ॥
॥ सुरेरुपदेशात् अकबरः पक्षिणोऽत्यजत् ॥ सूरि : शाहमयाचंत मुच्यन्तां पिंजरात् खगाः 1 अत्याक्षीत् पक्षिणः सर्वान्, प्रसन्नः सन्नराधिपः ॥ ११८॥
आदिशत् गृह्यतां नैव, कैश्चित् मत्स्यं सरोवरात् । :. तथैव कृतवान् सर्वं, गुरोराज्ञा गरीयसी ॥ ११९॥
॥ सूरिः पर्युषणे समस्तभारते जीवहिंसा प्रतिबन्धं शाहमयाचत । आचार्य शाहयोर्मध्ये, चलितं धर्मचर्चनम् ! सूरिर्जीवदया मर्मा - ज्ञापयत् तं शुभे क्षणे ॥ १२०॥
पर्युषणदिनान्यष्टौ न भवेत्क्वापि हिंसनम् । इत्याज्ञाप्य नृपालेन स्वराज्यं भूष्यतां त्वया ॥ १२१ ॥
॥ राज्ञो निदेशात् अबुलफजलेन पर्युषणे द्वादशदिनानि जीवहिंसा निरोधपत्रं सूरेश्चरणे धृतम् ॥ मेलयित्वा चतुर्वारान्, द्वादशाह्नं समादिशत् । फजलेन सदार्थन्तु, लिखित्वा चरणे धृतम् ॥ १२२॥
सत्ये श्रद्धां विधायैव कुर्यात्सफलजीवनम् । न्यायेनाचकथत् सूरिः कुर्यात् शुद्धविचारणाम् ॥ १२३ ॥
वंशतस्त्वागता रीतिः, दुःखाचेतां परित्यजेत् । कल्याणकारक धर्मं सात्त्विक, कर्ममाचरेत् ॥ १२४॥
यथातूप्तं तथा लूयात्, कृतं कर्म समश्रुयात् । मोचयेद् बन्धयेत् कर्म मिथ्यानैव भवेदिदम् ॥ १२५॥
॥ सूरेरुपदेशात् शाहेन स्वकृतपापकर्मणां कृतपश्चात्तापः पूर्वकृतहिंसापरिसंख्यानश्च ॥ श्रुत्वा सूरेः सुधावाक्यं भूतः प्रत्यक्षतां गतः ।
उपतस्थौ हि शाहान्ते, कृतं पापं हि भक्षति ॥ १२६॥
८८