________________
रसास्वादं परित्यज्य जिह्वामतिकमेत् सदा 1 शकत्या कष्टं सहित्वा तु सहिष्णुतामधिश्रयेत् ॥ ८५ ॥ नारोहेद् वाहनं कञ्चिद्, पादेन विहरेत् सदा । मनोवचनकायैस्तु, कष्टं देयं न च क्वचित् ॥ ८६॥ पञ्चेन्द्रियानधीनत्वं, मानापमानयोः समः 1 देहं न भूषयेत् किंचिद्, तपस्येत्तु सदा मुदा ॥ ८७॥ प्रीत्या धर्मं प्रकुर्वाणः, नियमश्चानिशं चरेत् । विविधव्यसन मन्त्रं, एकान्तवासनां त्यजेत् ॥ ८८॥ अनेक लक्षणं साधोरेवं वर्णितवान् मुदा ।
प्रवर्त्तमानो यथाकालं, वीरधर्मे सदा वसन् ॥ ८९॥
.
अज्ञानी धर्मनाम्ना तु, क्लिश्येत् तन्नोचितं भवेत्। मुक्तेस्तु साधनं धर्मः, प्रोच्यते शास्त्रकोविदैः ॥ ९०॥
मनसः पवित्रता शुद्धी-त्येव धर्मो निगद्यते । विषयाद् दूरतः स्थेय-मिति ध्येयं सदाऽनधैः ॥ ९१ ॥
क्लेशः कदापि नो धर्मे, इत्येव सुखसाधनम् । प्राप्तिञ्च कारयेन्मुक्तेः, मानवानां सुखं तु यत् ॥ ९२॥ नि:स्पृहता समते तत्त्वात्, धर्मस्य साधनं महत् । ममत्वरहितत्वेन स्वात्मधर्मो विधीयताम् ॥ ९३॥
॥ सूरेः सदुपदेशात् राज्ञो मनसि जात सद्धर्म-प्रकाशः ॥ धर्ममाकर्णतो नूनं शाहस्यान्तस्तु जागृतम् । सत्यसंशोधने वस्तु ज्ञातमित्यवदद् गुरुम् ॥ ९४॥
अद्यावधि श्रुत स्वामिन् स्वस्वगानं स्वतः कृतम्। किन्तुत्वद्दर्शनाद् भाग्यमद्यमे समुपस्थितम् ॥ ९५॥
८५