________________
पारंगताख्यया ज्ञेयः परमेष्ठी जिनः सदा ।। शम्भो भगवतीशेषु, भेदो जगत्प्रभोर्मतः ॥ ७३ ॥ तीर्थंकरस्तु स्याद्वादी जिनेश्वरोऽभयप्रदः । केवली सर्वदर्शी च, गुणातीतो महागुणः ॥ ७४ ॥ मन्यते वीतरागन्तु, विदेहं निगुणं परं । सर्वे ते गुणनिष्पन्ना, ईश्वर संज्ञया . मताः ॥ ७५ ॥ क्लेशप्रदो न रागोऽस्ति. द्वेषदावानलो नहि । वृद्धिकरो न मोहोऽस्ति न हृदेऽशुभवतनम् ॥ ७६॥ महत्त्वं प्रसृत लोके, शुद्ध एतेन बुध्यते । सर्वश्रेष्ठोऽधिदेवोऽयं महादेवस्तु गण्यते ॥ ७७॥ . क्षीणं यस्याखिलं कर्म, यश्च नित्यं सुखाधिपः। परमात्मपदं प्राप्तो लब्धमोक्षः , स ईश्वरः ॥ ७८॥
. ॥ संसारशब्दस्य व्याख्या ॥ . स्वरूपमीश्वरस्येदं, यन्नोभूतिस्तु संसृतौ । कर्मणां संक्षयान्नूनं, न कश्चिद् देहमाप्नुयात् ॥ ८०॥ संसारशब्दतो बोध्यं, वतस्रो गतयो ध्रुवम् । देवमनुष्यतिर्यञ्चैः, नारकेन च गण्यताम् ॥ ८१॥ गुरुः स एव बोद्धव्यः, पञ्चमहाव्रती तु यः । अचलो वीरसिद्धान्तः, स्वीकृतो येन जीवने ॥ ८२ ॥ अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् । आहारो भिक्षया कार्यः तात्पर्य यस्य जीवने ॥ ८३ ॥ सामायिके स्थिरो भूत्वा, धर्मञ्चोपदिशेत् सदा । . सुकान्ताकाञ्चनत्यागी स साधुरभिधीयते ॥ ८४॥
| ८४ |