________________
शय्योर्ध्वे न पदन्यासः नीचैर्जन्तुर्भवेद् बहुः । श्रुत्वा शाहोऽवदत् स्वच्छे नात्र जन्तुर्भवेद् ध्रुवम् ॥ ६२ ॥ शय्यामुत्थाप्य तन्नीचैः जन्तुजातं प्रदर्शितम् । वीरधर्मस्य सद्भावः सम्राजं प्रति दर्शितः ॥ ६३॥
॥ सम्राजे सूरिप्रदत्तप्रतिबोध: ॥ इत्थं गुरोश्चमत्कारं, दष्ट्वा शाहस्तु विस्मितः 1 नम्रभावाद् ययाचे यद् देशनां श्रावयन्तु माम् ॥ ६४॥
प्रसन्नसूरिराड् राज्ञे, प्रतिबोधं प्रदत्तवान् I सत्यं . दया च धर्मश्च, हृदये तस्य रक्षितः ॥ ६५ ॥
॥ सूरिणा निरूपित - देव-गुरु- धर्ममर्माणि ॥ गृहाणां चिरजीवित्वे, वस्तुत्रयमपेक्षितम् मूलो-भित्तिश्चखम्भश्च, छदिर्भवेत् तदुपरि ॥ ६६॥
1
जीवनरक्षका एवं, देवो गुरुश्च सुकृतिः 1 ज्ञानदीपक दीप्त्या तु, जन्तोरज्ञाननिर्हतिः ॥ ६७॥
गुणीभवन् गुणीसेव्यः, नीतिरीदृक् शरीरिणाम् । 'निर्गुणो निर्गुणैः सेव्यः, एवं मनसि धार्यताम् ॥ ६८॥
इत्थमेव गुरुर्देवो, धर्मश्चापि परिक्ष्यताम् । निर्भयता मनुष्यत्वे, सत्यं चेतसि धार्यताम् ॥ ६९॥
मतमतान्तराणान्तु, विवादो जगतीतले -परिचेतुं प्रभुं नित्यं, भिन्नं भिन्नं तु गीयते ॥ ७० ॥
ईश्वरं मन्यते सर्वः, नास्ति कश्चन वञ्चितः । चित्ते चतुरतां धृत्वा, मुधा कलिर्विधीयते ॥ ७१ ॥
देवो विष्णुर्महादेवः शङ्करः प्रोच्यते जनैः 1 अजः क्षीणाष्टकर्मातु, प्रभुनाम्ना च गीयते ॥ ७२॥
८३