________________
नवत्रिषट्चन्द्र वर्षे (१६३९) मार्गासितनगे तिथौ । त्रिचन्द्रमुनिभिः सार्द्धमुत्तरस्यां तु वै मुदा ॥ ५१ ॥ हीरो गन्धारतो कामं विजहार गुरुर्महान् । स्थाने स्थाने तु विश्राम्यन् गुरुस्तु गतवान् मुदा ॥ ५२ ॥ सीक्रीफतेहपुर्यां तु भृशमुत्साहपूरितः 1
द्वादश्यां ज्येष्ठकृष्णे तु प्रविष्टो नगरे गुरुः ॥ ५३॥
1
संघेन स्वर्णपुष्पैश्च संवर्धापनिका कृता वन्दमान प्रजावर्णैः ददौ मानं तु सूरये ॥ ५४ ॥
.
॥ सूरीश्वरसम्राजोर्मिलनम् ॥
त्रयोदशयान्तु शाहेना - मिलत् सूरिः सुखप्रदः । अबुलफजलं नीत्वा : शान्तमूर्त्तिस्तपोधनः ॥ ५५॥ दिव्यरूपं गुरुं दृष्ट्वो-त - त्पन्ना पूजनभावना I सूरिं सन्मान्य शाहेन प्रोक्ता वाणी सुखावहा ॥ ५६॥ विधाप्य कठिनां यात्रां दुःख दत्तं मया भृशम् । ततो दयां विधायैव क्षमस्व गुरुपुंगव ॥
५७॥
॥ सूरिणा वर्णितं साधुजीवनम् ॥ न साधुजीवने दुःखं धर्माद्याचरणे भवेत् । पारमार्थिकन्तु कार्ये नः कर्तव्यं सूरिरब्रवीत् ॥ ५८ ॥
अन्येषां प्राणिनां कष्टं समुद्धर्तुं स्वयं सहे । धर्मोपदशना कार्या स्थाने स्थाने पदाटनम् ॥ ५९॥
॥ सूरीश्वरस्य त्यागः सम्राजंप्रति प्रदर्सितवीरधर्मभावना ॥ वचनं त्यागवृत्तेस्तु श्रुत्वा शाहः सुखी भवत् । विधाय नमनं सुरेश्चित्रं गेहे तु नीतवान् ॥ ६०॥
सिंहासेन च संवेष्टुं प्रीत्या प्रार्थितवान् नृपः । द्वारान्तिके गुरुस्तस्थौ शाहः पप्रच्छु कारणम् ॥ ६१॥
८२
N EL