SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आपत्तिः सकला नष्टा, सूरिः बोरसदे पुरे । सप्तत्रिंशोत्तरे वर्षे, षोडशशतके पुनः ॥ ४० ॥ * समागत्य चतुर्मास्या,-मकार्षीत् सुखपूर्वकम् । निमंत्रणं च संप्राप्तं, त्वष्टात्रिंशे च षोडशे ॥ ४१ ।। पुनर्गुरुस्तु खंभाते प्रत्यगात् सुखमानसः । चन्द्रप्रभं प्रतिष्ठाप्य, पूर्णोदयस्य भावना ॥ ४२ ॥ गुर्जरे तीर्थभूते तु गंधारे नगरे गुरुः । कृतवान् हि चतुर्मास्यां, हीरो धर्मधुरन्धरः ॥ ४३ ॥ विकासं वीरधर्मस्य कुर्वतः प्रभुता भृशम् । प्रशस्यते प्रतिस्थानं जनैर्निश्चलमानसैः ॥ ४४ ॥ कालक्रमात् समायातो दिल्लीराज्यासने शुभे । अकबरेति विख्यातः प्रजानां हितकारकः ॥ ४५ ॥ श्रुता तेन प्रशंसा तु हीरसूरेः मुहुर्मुहुः । अहोहीरो महाघन्यः कीर्तिर्यस्य हि विश्रुता ॥ ४६ ।। ॥ सम्राजाऽकबरेण श्रुतसूरिप्रशंसा ॥ अट्टालिकोपविष्टस्य पश्यतोऽकबरस्य तु । . तपस्यन्त्यास्तु चंपायाः वराश्वो निःसृतः पथि ॥ ४७॥ सुवाद्यं शृण्वता राझो-त्कण्ठया शोधितं जनैः । .. श्रुत्वा हीरप्रभावन्तु संगमायाऽऽतुरो नृपः ॥ ४८॥ अकबरोऽविलम्बेन मार्गं शोधितवान् धिया । गुणिनस्तुं प्रपूज्यन्ते सर्वे सर्वत्र सर्वदा ॥ ४९॥ ॥सम्राजा निमन्त्रितः सूरिः ॥ आग्रासंघेन सार्धं तु राज्ञा सूरिर्निमन्त्रितः ।। संघान्तिकेतु स्वीचक्रे सूरिरुत्साहचेतसा ॥ ५० ॥ DOBITI [?]PIT
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy