________________
भारताऽपेक्षया देशे, गुर्जरे विदशाऽभवत् ।। . स्थले स्थले च सन्मानं, प्राप्नुवन् सुमनोहरम् ॥ २९ ॥ हीरसूरीश्वरो धीमान् खंभाते सुखमागमत् ।। वचनसिद्धितो वर्धमाने पराक्रमे महान् ॥ ३० ॥ उपद्रवः समुत्पन्नः, महतां खेदकारकः । वरेण रत्नपालस्य, सुपुत्रेच्छामंपूरयत् ॥ ३१ ॥
वचनपालन प्रेषान्तः, सूरो निग्रहोऽभवत् । .. बोरसदे पुरेऽव्राजीत्, त्रिंशदधिकषोंडशे (१६३०) ॥ ३२ ॥
शतके हीरसूरिस्तु, जगमालेन गच्छतः ।। बहिष्कृतस्ततः पेट-लादं गत्वा निरोधतः ॥ ३३॥
पत्रं निष्कासितं किन्तु, सूरे न भूत् क्षतिस्तथा । निर्भयो जायते लोके, पुमान् धर्मस्य रक्षणात् ॥ ३४॥ (सप्तभिः कुलकम्)
॥आपत्तावपि सूरेधर्मदृढता ॥ कुणधेर पुरे जातः, चतुस्त्रिंशोत्तरे महान् । षोडशशतके (१६३४) नित्यं, वन्दनस्य कलिZधा ॥ ३५॥
आपत्तेरागतत्वेऽपि, मनो न चलित गुरोः । . अमदावादपुर्यां तु, षट्त्रिंशे षोडशे (१६३६) गुरुः ॥ ३६॥
हीरसूरीश्वरो धीमान् आगतो मुनिभिर्युतः ।। पुनर्निरोधपत्रस्य, निर्गतत्वेऽपि शत्रवः ॥ ३७॥ नाप्नुवन् हि फलं किञ्चित्, धर्मो रक्षति रक्षितः । धर्मस्य रक्षणे तस्मिन् आपत्तिः पतिता बहु ॥ ३८॥ संकट दुःसहं प्राप्य, मान्यतां नात्यजम् गुरुः ।
वीरशासनवीरोऽसौ, व्यजैष्ट गुरुधर्मतः ॥ ३९॥ DOODLC01 ZOO