________________
दानसूरेर्हि व्याख्याने श्रोतॄणां मुह्यते मनः I तस्योपदेशतो नूनं हीरस्य विमलं मनः ॥ ९॥
॥ श्री हीरजी भाविकस्य वैराग्यभावना ॥ दीक्षां ग्रहाय निश्चिक्ये दानसूरे गुरोर्मुदा । महावीरस्य सन्मार्गे प्रतस्थे निजतेजसा ॥ १० ॥
महामहोत्सवाद् धीरः षण्णवति ते मुदा । पञ्चदशशते वर्षे (१५९६) दीक्षां जग्राह कार्तिके ॥ ११ ॥
॥ हीरजी दीक्षामहोत्सवो दीक्षानामकरणं च ॥ दानसूरिगुरुश्चके हीर हर्षाभिधं मुनेः । तदा सम्बन्धिमित्रैश्च पत्तनस्थैर्जनैर्मुदा ॥ १२ ॥ चक्रे महोत्सवो नूनं दृष्ट्वा देवा मुदं गताः । स्थितानां तत्र जन्तूनांमवक्तव्यो मुदोऽभवत् ॥ १३ ॥
॥ शास्त्राध्ययनाय हीरहर्षस्य देवगिरिं प्रति प्रयाणम् ॥ अध्येतुं न्यायशास्त्राणि हीरो देवगिरिं गतः । धर्मसागरमुनिस्तेन सहासीत् विमलोऽनघः ॥ १४॥
तत्र देवगिरौ देवी जशमां सपर्तिमुदा । प्रबन्धं सर्ववस्तुनां चकार मुनये हितम् ॥ १५॥
॥ श्री हीरहर्षस्य पण्डितपदवी ॥ न्यायचिन्तामणिर्ग्रन्थान् सर्वसोऽधितवान् सुखंम् । ज्ञानदीपावलिर्जझे ह्रदि तस्य गुरुर्महान् ॥ १६॥
पण्डितपदवीं तस्मै दत्तवान् योग्यता वशात् । सप्तदश सताब्द्यादौ (१६०७) धर्मधीरभवच्छुभा ॥ १७ ॥ ॥ उपाध्यायपदवी ॥ दानसूरिकृपालेशात् अष्टोत तु षोडशशते (१६०८) मार्गसिते नागे ( पचमी संघस्य सन्निधौ गुरुः ॥ १८ ॥
७८