________________
विद्याधरेन्द्रौ विनमिर्नमिश्च, यद् बिम्बमभ्यर्चयतः स्म पूर्वम् । स्वर्गे ततोऽपूजि बिडौजसा यत्स्वधानि एव स्पृहयेव सिद्धेः ॥ ८॥ तत्रापि च स्फूर्तिमियर्त्यपूर्वां, श्रीस्तम्भने स्तम्भनपार्श्वदेवः । व्यध्वसि धन्वन्तरिणेव येन, कुष्ठोपतापोऽभयदेव सूरेः ॥ ९॥
श्री हीरसूरीश्वरस्य पालनपुरे झवेरी गृहे प्रादुर्भावः विख्याते गुर्जरे प्रान्ते झवेरीवृन्दपूरिते । पालनाख्यापुरे रम्ये वणिजः शोभने गृहे ॥ १॥ हीरो हीरमिवोत्पन्नः सप्तदशवियुक्तषोडश शततमे वर्षे (१५८३) माग शुक्लदले तिथौ ॥ २॥ नवम्यां शोभने काले कान्त्या चन्द्रंसमः पुमान् । कुलस्य दीपको नित्यं वीरधर्मप्रचारकः ॥ ३॥
. त्रिभिर्विशेषकम्
॥सूरीश्वरस्य नामकरणम् ॥ वीरधर्मं सदा रक्षन् कुराशा जनको महान् । माता नाथी महादेवी नित्यं गुरुपदानुगा ॥ ४॥ चक्राते स्वशिशोराख्यां हीरजीति शुभप्रदाम् । ववृधे . चन्द्र वत्सोऽति पित्रोहर्षप्रदायकः ॥ ५॥ ‘युगमम्,
॥सूरेः मातापित्रोः स्वर्गवासः ॥ सप्तसु भ्रातृवर्गेषु हीरजी भाग्यवान् खलु । ... . .पूर्वपुण्योदयाज्जातो वीतरागेऽनुरागवान् ॥ ६॥ · वर्षे त्रयोदशे तस्य पितरौ तु दिवं गतौ । तदा बन्धन मुक्तोऽसौ पत्तनं प्रत्यगात्मुदा ॥ ७॥
श्री हीरजी महोदयस्य सद्गुरु समागमः । गुर्जरदेशमूर्घन्यं पत्तनं प्रोच्यते बुधः । __ तत्र सद्गुरुभिर्नित्यं वीरधर्मः प्रकाश्यते ॥ ८॥
reOne
ONOCOCOL