________________
साधुत्वे सदृशेऽपि देववनितोत्सङ्गा वशिष्ठादिकालज्जातो मुनयो गताः क्वचिदहो ! निर्मानुषे कानने ॥ २३० ॥ देवोरुद्वंयमद्भुतं तव सदारम्भाफलाभ्यन्तरस्पर्श नैव कदाचिदद्भुततरं पस्पर्श नारीतलम् । मत्वेतीव सुवृत्तजानुमिषतः सद्वृत्तकोशं न्यधाद्धाता तत्र ततस्तपोगणपते ! सद्वृत्तता ते मता ॥ २३१॥ मत्वेतीव विधिश्चकार विशदच्छत्रादिचिह्नाङ्कितौ । सर्वोद्धर्वार्थविशेषसंगमवशात्तत्रोद्धर्वरेखां व्यधादेवं त्वां स्तवनं नयन्ति विबुधाः श्रीहीरभट्टारक ! ॥ २३२॥ मङ्गलाख्ये पुरे मोदादेवं काव्यं जगद्गुरोः । चकार स्र्वसिद्धयर्यं पण्डितः पद्मसागरः ॥ २३३ ॥
इति महोपाध्यायश्रीधर्मसागरगणिपण्डितोत्तंसश्रीविमलसागरगणिशिष्य पं. पद्मसागरगणिविरचितं
जगद्गुरुकाव्यं संपूर्णम् । लिखितं मङ्गलपुरे संवत् १६४६ वर्षे द्वितीयाभाद्रपदसित ११ दिने ॥
VOODOWNOWN ७५ DOWNOQ.NOONOM