________________
२२४ ॥
एषा मे वचनीयता क्षितितले माभूदितीवैणभृच्छम्भोर्मूर्ध्नि तपस्तनोत्यतनुकं गङ्गातटे निर्मले 11 पीत्वा त्वद्वचनं मनुष्यनिकरः सुस्थः समाध्युद्भवाद्देवानां निकरस्तु तत्समसुधां तृप्तस्तथा चाभवत् । त्वं त्वेवं भुवनोपकारकरणेनैवाऽसि तृप्तः सदा त्वामेवं विबुधाः स्तुवन्ति गुणिषु प्राप्तैकरेखं समम् ॥ २२५॥
त्वत्कण्ठोपमितिं मुनीश्वर ! समासाद्येव कम्बुर्वरः कृष्णस्याऽपि जयप्रदाननिपुणः संजायते मङ्गलम् ! तत्रत्यां स्वरसारतां बुधजनाः पीत्वेव तृप्ता इदं भाषन्तेऽमृतपूर्ण पूर्णकलशः किं वेधसाऽयं कृतः ? '॥ २२६॥ विद्याभिस्तव गच्छनाथ ! हृदयं सर्वाभिरप्याश्रितं क्षीराम्भोधिरिवाऽमलाभिरमलं स्रोतस्विनीभिः श्रिये । तज्जानेऽजनि सर्वतः पृथुतरं तद्वासदानाय यत् सन्तः स्युर्वसतिप्रदानमतयः स्वैकाश्रयप्राणिनाम् ॥ देव त्वद्भुजयामलं मतिमतां हग्मार्गमभ्यागतं हृद्येवं विदधाति तर्कमिह किं धात्रा समर्थाविमौ ? । सृष्टौ मूर्द्धनि दुष्प्रहारविधये दण्डौ त्रिलोकोद्गवस्यानङ्गस्य महाभटस्य परमस्थाभ्राऽधिकत्वस्पृशा त्वत्कोष्ठे जलधाविवाऽतिगहने सिद्धान्तरत्नान्यहो ! तिष्ठन्ति प्रकटानि नायक ! तथा तस्थुर्यथा निर्मले । श्रीसौधर्मगणेशमुख्यसकलाचार्योदरे तद्बुधामत्वेतीव वदन्ति तत्तदनुगं त्वां ख्यातविद्यागुणम् ॥ २२९ ॥
||
उत्सङ्गस्तव देव ! देववनितातुल्याङ्गनालिङ्गनत्यागी शैशवजातितोऽपि विबुधाधीशोऽस्ति मन्ये ततः ।
७४
२२७॥
२२८ ॥