________________
स्रष्टाऽथ स्वयमेव निर्मितगतियॊनीव ताराच्छलात् स्वामिंस्त्वद्गुणसंग्रहं निशि करोत्याक्षेपवान् सर्वदा । तद्यलाय दिवा तु निश्चलमतिर्भूत्वेव तिग्मच्छविस्तिष्ठत्येष यतः सतां मतिरियं सद्वस्तुनः पालने ॥ २०५॥ मूर्तिस्ते . जिनमूर्त्तिवत्कलियुगे दुष्कल्मषध्वंसिनी शान्तैः कान्तमनोभिरीहितहितैश्चित्ते निजे न्यस्यते । दुष्टैः कैश्चिदुपेक्ष्यतेऽथ तव न द्वेषो न चोल्लासिता शीतांशोरमृते दुरम्बुनिं समः किं नो भवेत्सङ्क्रमः ? ॥ २०६॥ देव ! त्वद्गुणसन्ततिर्गुणिजनैय॑स्ता · निजे मानसे चित्रावल्लिरिव प्रवृद्धिजनिकाऽभूत्तद्गुणानां जने । दोषाक्तैरथ दूरिताऽद्भुतमिदं तद्दोषसंवर्धिनी यद्वा. नाऽद्भुतमेतदुग्रमनसामुग्रा प्रवृत्तिर्भवेत् ॥ २०७॥ श्रीवीरस्य शिवङ्गतस्य विरहे दुःखार्दितप्राणिनां दुःखध्वंसकृते कलाविव विधिस्तत्तुल्यहीरं व्यधात् । तस्येवास्य भवेद्यदीयहृदयेऽभेदप्रतीतिः परा श्रेयः श्रीः करपङ्कजे स्थितवती कुर्याच्च तं तन्निभम् ॥ २०८॥ स्वस्त्यऽर्काय तमोभिदे भगवते लोकप्रकाशात्मने विश्वायाघनदानतो ह्यवसरे वृत्तिं परां तन्वते । । जाड्यच्छेदपराय दूरगजनोत्तापाय शस्तोदये भूदेवैर्विहितार्चनाय भवते भूयात् स्फुरद्रोचिषे ॥ २०९ ॥ लोकोन्मार्गनिदर्शनोद्भवमिव स्वागः स्मरन् लौकिक: शंम्भुस्त्व्युदिते श्रुते मुनिपते ! नश्यन् सुनीत्यद्भुते । भारं मूर्ध्नि विमृश्य शीतकिरणं यं पुष्करे मुक्तवान् सोऽयं प्रभ्रमतीव सार्थपतिना मुक्तो गलि!ः पथे ॥ २१०॥ कुर्वाणस्तव दर्शनं नयनयोर्लोकोऽनिमेषोऽभवत्
त्वद्भाषाश्रवणाद्विवेकविकलोऽप्यासीद्विवेकान्वितः । ALBM ७१ MIND