________________
सद्यः
स्थानकसिंहमुख्यसकल श्राद्धास्तदात्युत्सवं
चक्रुः श्रीमति वित्तकोटिकलिताः फत्तेपुरे सर्वतः ॥ १९८॥
अन्येद्युर्नरनाथहस्तलिखितं लात्वा त्रिलोकीगुरोः शिष्याः श्रीगुरुमान्यधन्यविजयास्तद्भृत्यसंसेविताः सूरत्यादिषु मुद्रलाश्रितजिनौकः साधुसद्मव्रजं
तन्मुक्तं जिनबिम्बसाधुकलितं श्राद्धैस्तदाऽकारयन् ॥
I
एवं
श्रीगुरुहीरहीरविजयाचार्यान्नृपाऽकब्बरे-
णात्यन्तं रचितस्तुतीन् कृतमहापूजान् पुनः सत्कृतान् । आयातानथ गौर्जरे क्षितितले श्रुत्वा पुरान्मङ्गलात् स्तौतीत्थं शिशुपद्मसागरकविः प्रेम्णा विवेकान्वितः ॥ २००॥
नत्वा सत्त्वनिधत्ततत्त्ववचरितं श्रीपार्श्वनाथं. जिनं स्तौमि श्रीनिधिमूर्त्तिहीरविजय भट्टारकाग्रेसरम्
१९९॥
यस्य
स्तोत्रधनुष्यसंख्यविदुषमासेदुषां
शेमुषीबाणाली गुणसंस्थिताऽपि भुवने व्याप्ता न कैः श्लाध्यते ॥ २०१॥
श्लाध्या ते मुनिराज ! कस्य वदने चिह्वेव नो विद्यते विद्या साऽपि न काऽस्ति देव ! तव या जिह्वान्तमासेदुषी । सन्ति त्वय्यनघाः पवित्रितदिशः सम्यग्गुणाश्चापरे. मत्वेतीव समस्तगच्छजनता त्वां स्वामिनं मन्यते ॥ २०२॥
सोमत्वं तव निष्कलङ्कमतुलं नित्यप्रसारैः करैमन्ये व्योम्नि समेत्य शीतकिरणो जात्यार्थिवद्याचते । आदित्यस्तु तव प्रतापमचलं विश्वत्रयव्यापिनं तेन त्वत्पुरतो न कः क्षितितले सञ्जायते याचकः ॥ २०३॥
७०
सूर्याचन्द्रमसौ गुणान्तममलं ते वीक्षितुं नायकं ! स्रष्ट्रा व्योमतलाध्वशीघ्रतरगौ दूताविव प्रेषितौ 1 अप्राप्येव तदन्तमम्बुधितले खिन्नोऽविशद्धानुमान् श्यामास्यः पुनरागतः शशधरो रात्रौ कलङ्कच्छलात् ॥ २०४॥
Cle