________________
વૈશેષિકદન
घट इति प्रतिपद्यते, न पुना रूपादिव्यतिरिक्ता घटादय इति ...। संस्थानभेदाद् भेदप्रत्यय इति चेत् - केनचित् संस्थानविशेषेणावतिष्ठमाना रूपादयः संस्थानभेदानुविधानाद् घटादिबुद्धिहे तवो भवन्तीति । नैतदस्ति । संस्थानस्यान्यत्वेऽनन्यत्वे संज्ञाभेदमात्रत्वात् व्यर्थाभिधानप्रसाङ्गाच्च । यदि संस्थानं रूपादिभ्योऽन्यत् , द्रव्यं तदिति संज्ञाभेदमात्रम् । अथानन्यत् तथापि रूपादिनां संस्थानभेदानुवि
धानात् घटादिप्रत्यया इति व्यर्थाभिधानम् । न्यायवार्तिक १.१.१४ । १० पृथिवीत्येकवचनं रूपादय इति बहुबचनं, वचनभेदानुविधानं च यत्र तत्रार्थभेदः।
तद्यथा नक्षत्राणि शशीति । न्यायवातिक १.१.१४ । तदग्रहे तबुद्धयभावादिति चासिद्धोऽप्ययं हेतुः । कथमसिद्धः ? रूपाद्यग्रहे द्रव्यग्रहात् । यस्मान्नीलाद्युपधानभेदानुविधायिनः स्फटिकमणे रूपानुपलब्धौ स्फटिक इति प्रत्ययो दृष्टः । न्याययार्तिक १.१.१४ । प्रतीयमानरूपस्पर्शव्यतिरिक्तस्य द्रव्यान्तरस्याभावादिति चेत् , न, स्तम्भोऽयं कुम्भोऽयमिति प्रत्येकविलक्षणसंस्थानसंवेदनाद् रूपादिस्वभावस्य सर्वत्राविशेषात् । वासनाभेदात् प्रतिसञ्चयं संवित्तिभेद इति चेत् , नीलादिसंवित्तिभेदोऽपि वासनाकृत एवास्तु नार्थो नीलादिभेदेन । असति बाह्यवस्तुनि स्वसन्तानमात्राधीन. जन्मनो वासनापरिपाकस्य कादाचित्कत्वानुपपत्तेः तन्मात्रहे तोर्नीलादिसंवेदनस्य कादाचित्कत्वासंभवाद् नीलादिभेदकल्पनेति चेत्, स्तम्भादिसंवित्तिभेदस्यापि बाह्यवस्त्वननुरोधिनो न कादाचित्कत्वमुपपद्यत इति रूपादिव्यतिरिक्तः प्रतिसंचय वासनाविशेषप्रबोधहेतुर्विलक्षणः संस्थानविशेषः कल्पनीयः येन दर्शमस्पर्शनाभ्यामे
कार्थग्रहणमपि सिद्धयति । न्यायकन्दली पृ० १०२-१०३ ।। १३ न हि .यदेव रूपं स एव स्पर्श इति । न च रूपं त्वगिन्द्रियग्राह्यम् , अन्ध
स्यापि नीलादिप्रत्ययप्रसङ्गात् । आत्मतत्त्वविवेक पृ० ३२० । १४ न तावदुपादानरूपैकदेशसम्भवः, तयोः प्रतिनियतोपादानत्वात् । सम्भवे वा
तदेव द्रव्यमिति पर्यवसितं. विवादेन । गप्यधिकरणीभूतभूतलाद्याधारतया तत्संभवः । चक्षुषा ह्युपलभ्यमाने भूतले रूपविशेषे घटोऽपि चक्षुषैवोपलभ्यमानो रूपविशेषस्तदाधार इति शंक्यते नि चेतुम् , तयोरधरोत्तरभावेनैकज्ञानसंसर्गित्वात् ।
आत्मतत्त्व० ३२१--३२२ ।। १५ नैककालतयाऽपि, प्रमाणाभावात् । भावेऽपि वा करभरासभयोरप्येककालतया समु
दायत्वप्रसङ्गः, भेदाग्रहस्य प्रकृतेऽप्यसम्भवात् । आत्मतत्त्व० पृ० ३२२-३२३ । ११ नैककार्यतयापि, उपादेयरूपस्यैकस्य कार्यस्याभावात् । एकोदकाहरणलक्षणा भर्थ
क्रिया इत्यपि न युक्तम्, रूपाद्यतिरिक्तस्योदकस्यानभ्युपगमात् । एकैकस्यानेकाहायत्वे प्रमाणाभावात् , समुदायस्य चासिद्धेः । आत्मतत्त्व० पृ० ३२३ ।