________________
પર
१६शन
3१ व्याघातावधिराशङ्का ........। न्यायकुसुमाञ्जलि ३.७ । ३२ न च सकलत्रिभुवनविवरनिरुद्धधूमाग्निव्यक्तिसार्थसाक्षात्करणमुपयुज्यते, ज्वलनत्वादि__सामान्यपुरस्सरतया व्याप्तिग्रहणात् । यतूक्तं
- 'सामान्यं वास्तवं नास्ति' इति तत् शब्दार्थचिन्ताप्रसङगे प्रतिसमाधास्यते ।
न्यायमं०, भा० १, पृ० १११ । 33 तथा च सामान्यलक्षणां विना धूमत्वेन सकलधूमानां वह्नित्वेन सकलवह्नीनां च
भानं कथं भवेत् तदर्थ सामान्यलक्षणा स्वीक्रियते । सिद्धान्तमुक्ता० ६५ । ' ३४ सिद्धान्तमुक्ता० ६५ । 3५ न्यायान(30ml), म.म. विभूषण, ५० १४१-१४२. 38 व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः। तर्कसंग्रह । ३७ परामर्शजन्यं ज्ञानमनुमितिः । तर्कसंग्रह । 3८ ...त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं च । न्यायसू० १.१.५। ३६ पूर्ववदिलि-यत्र कारणेन कार्यमनुमीयते, यथा-मेघोन्नत्या।, भविष्यति वृष्टिरिति । न्यायभा० १.१.५ । ।
, ४० अथवा पूर्ववदिति-यत्र यथापूर्व प्रत्यक्षभूतयोरन्यतरदर्शनेनान्यतरस्यायक्षस्यानुमानं,
यथा धूमेनाग्निरिति । न्यायभा० १.१.५ । ४१ शेषक्त तत् यंत्र' कार्येण कारणमनुमीयते, पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं
शीघ्रत्वं च दृष्ट्वा स्रोतसोऽनुमीयते भूता वृष्टिरिति । न्यायभा० १.१.५ । ४२ शेषवन्नाम परिशेषः । स च प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाद् शिष्यमाणे सम्प्रत्ययः, यथा
सदनित्यमेवमादिना द्रव्यगुणकर्मणामविशेषेण सामान्यविशेषसमवायेभ्यो विभक्तस्य शब्दस्य तस्मिन् द्रव्यगुणकर्मसंशये, न द्रव्यम् एकद्रव्यत्वात्, न कर्म शब्दान्तरहेतुत्वात् , यस्तु शिष्यते सोऽयमिति शब्दस्य गुणत्वप्रतिपत्तिः । न्याभा०
४३ शेषवत् यथा--समुद्रादेकं जलपलं लवणमासाद्य शेषस्याप्यस्ति लवणभाव इति ।
गौडपादभाष्य, सांख्यकारिका ५। ४४ सामान्यतोदृष्टम्--व्रज्यापूर्वकमन्यत्र दृष्टस्यान्यत्र दर्शनमिति, तथा चादित्यस्य,
तस्मादस्त्यप्रत्यक्षाऽप्यादित्यस्य व्रज्येति । न्यायभा० १.१.५ । ४५ सामान्यतोदृष्टं नाम--मत्राप्रत्यक्ष लिङ्गलिङ्गिनोः सम्बन्धे केनचिदर्थेन लिङ्गस्य
सामान्यादप्रत्यक्षो लिङ्को गम्यते, यथेच्छादिभिरात्मा, इच्छाइयो गुणाः, गुणाश्च द्रव्यसंस्थानाः, तद् यद् एषां स्थानं स आत्मेति । न्यायमा १.१.५ ।