________________
પદ્દન
१४ सामान्यविशेषेषु सामान्यविशेषाभावात् तत एत ज्ञानम् । वै०सू० ८.५ । १५ सामान्यविशेषापेक्ष द्रव्यगुणकर्मसु । वै०सू० ८.६ । ११ द्रव्ये द्रव्यगुणकर्मापेक्षम् । वै०सू० ८.७ ।। १७ तत्र सामान्यविशेषेषु स्वरूपालोचनमात्रं प्रत्यक्ष प्रमाणं... प्रमितिव्यादिविषय
ज्ञानम् । सामान्यविशेषज्ञानोत्पत्तौ अविभिक्तमालोचनमात्रं प्रत्यक्ष प्रमाणमस्मिन्
नान्यत् प्रमाणान्तरमस्ति अफलरूपत्वात् । पदार्थधर्मसं० पृ० ४७१ -४७३ । १८ एकंदा खल्वयं विषयान्तरासक्तमनाः सङ्कल्पवशाद् विषयान्तरं जिज्ञासमानः प्रय-.
नप्रेरितेन मनसा इन्द्रियं संयोज्य तद्विषयान्तरं जानीते । न्यायामा० २.१.२७ । १८ आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति । न्यायभा० १.१.४ । २० उभयोरसाधारणत्वात् । न्यायवा० १.१.४ । २१ यदा तु खल्वस्य निःसङ्कल्पस्य निर्जिज्ञासस्य च व्यासक्तमनसो बाह्यविषयोपनि
पातनाद् ज्ञानमुत्पद्यते तदेन्द्रियार्थसन्निकर्षस्य प्राधान्यम् । न ह्यत्रासौ जिज्ञासमानः प्रयत्नेन मनः प्रेरयतीति । प्राधान्याच्चेन्द्रियार्थसन्निकर्षस्य ग्रहण कार्यम् ।
न्यायमा० २.१.२७ । २२. ... एवमात्मनि गुणान्तरं सर्वस्य साधकं प्रवृत्तिदोषजनितमस्ति येन प्रेरितं मन
इन्द्रियेण सम्बध्यते । न्यायभा० २.१.३० । २३ तैश्चापदेशो ज्ञान विशेषाणाम् । न्यायसू० २.१.२८ । इन्द्रियविषविशेषाच्च
पञ्चधा बुद्धिर्भवति। अतः प्राधान्यमिन्द्रियार्थसन्निकर्षस्येति ।न्यायभा० २.१.२८ २४ ...अव्यापि... । न्यायभा० २.१.१६ । २५ ...एकं मनः । न्यायसू० ३.२.५६ । २६ अस्ति खलु वै ज्ञानायौगपद्यमेकैकस्येन्द्रियस्य यथाविषयम्.... न्यायभा० ३.२.५६ २७ अलातचकदर्शनवत् तदुपलब्धिराशुसञ्चारात् । न्यायसूत्र ३.२.५८ । २८ यावदर्थं वै नामधेयशब्दास्तैरर्थसम्प्रत्ययः, अर्थसम्प्रत्ययाच्च व्यवहारः। तत्रेदमिन्द्रि
यार्थसन्निकर्षादुत्पन्नमर्थज्ञानं 'रूपम्' इति वा 'रसः' इत्येवं वा भवति, रूपरसशब्दाश्च विषयनामधेयम् , तेन व्यपदिश्यते ज्ञानम् - 'रूपमिति जानीते' 'रस इति जानीते,' नामधेयशब्देन व्यपदिश्यमानं सत् शाब्दं प्रसज्यते, अत आह-अव्यपदेश्यमिति ।...तस्य त्वर्थज्ञानस्यान्यः समाख्याशब्दो नास्ति ... तस्माज्ज्ञेयस्यार्थस्य संज्ञाशब्देनेतिकरणयुक्तेन निर्दिश्यते-'रूपमिति ज्ञानम्' 'रस इति ज्ञानम्' इति ।
न्यायभा० १.१.४ । २८ तत्र वृद्धनैयायिकास्तावदाचक्षते—व्यपदिश्यते इति व्यपदिश्यं शब्दकर्मतापन्न
ज्ञानमुच्यते यदिन्द्रियार्थसन्निकर्षादुत्पन्नं सत् विषयनामधेयेन व्यपदिश्यते — रूप