________________
વૈશેષિકને
४०१
७३ न गोत्वम्, गव्यगवि वृत्त्यभावादिति चेत् - मथ मन्यसे यदिदं गोत्वं गोव
नुवृत्तिप्रत्ययकारणं तत् किं गवि वर्तते आहोस्विदगवि । यदि तावद् गवि, प्राक् गोत्वयोगाद् गौरेवासाविति व्यर्थ गोत्वम् ; अथागवि, न, अश्वायपि गोत्वयोगात् गौः प्राप्नोति । न चान्या गतिरस्ति । तस्मान्न गोत्वादनुवृत्तिप्रत्यय इति । न्यायवा० २.२.६५ ।
७४ न, विकल्पानभ्युपगमात् - न गवि गोत्वम्, नागवि, प्राग गोत्वात् नासौ गौः
नाप्यगौरिति । किं कारणम् ? उभावेतौ विशेष्यप्रत्ययौ न विशेषणसम्बन्धमन्तरेण भवतः । न च प्राग् गोत्वयोगाद् वस्तु विद्यते । न चाविद्यमानं गौरित्यगौरिति च शक्यं व्यपदेष्टुम् । यदैव वस्तु तदैव गोत्वेनाभिसम्बध्यत इत्यनास्पदो विकल्पः ।
न्यायवा० २.२.६५ । . . ७५ एकार्थप्रतिभासिन्या भावानाश्रित्य भेदतः ।
पररूपं स्वरूपेण यया संवियते धिया ॥६॥ तया संवृतनानात्वाः संवृत्या मेदिनः स्वयं । अमेदिन इवाभान्ति मेदा रूपेण केनचित् ॥६८॥ तस्य अभिप्रायवशात् सामान्यं सत् प्रकीर्तितम् ।
तदसत्' परमार्थेन यथा संकल्पितं तया ॥६९॥ प्रणाणवार्तिक ३। ७६ तस्माद् यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः ।
जातिमेदाः प्रकल्प्यन्ते तद्विशेषावंगाहिनः ॥ प्रमाणवार्तिक ३.४० । ७७ तथाप्येकं निमित्तमन्तरेण भिन्नेष्वाकारेषु नामेदग्रहणमस्ति । भवद् वा गवाश्व. महिषाद्याकारेष्वपि भवेद् अविशेषात् । गवाकारेष्वप्यगोव्यावृत्तिरेकं निमित्तमस्तीति
चेत् , के पुनरगावो यद्व्यावृत्त्या गवाकारेष्वेकत्वमारोप्यते । ये गावो न भवन्ति तेऽगाव इति चेत् , गावः के । ते येऽगावो न भवन्तीति चेत् , ... । कन्दली
पृ० ७६२-७६३ । मे। न्यायमञ्जरी भा० १, पृ० २७८ । ७८ ... एकार्थक्रियाकारित्वादेकहेतुत्वाच्च गोव्यक्तिनामेकत्वमिति चेत् , नासति सामान्ये
व्यक्तीनामिव व्यक्तिहेतूनां व्यक्तिकार्याणामपि परस्परव्यावृत्तानामेकत्वात् । कन्दलो
पृ० ७५७ । ७८ ते सर्व एवापोहवाचित्वाविशेषात् पर्यायाः स्युः, अपोहभेदाददोष इति चेत् , न,
अपोहानां मेदाभावात् , भिद्यमानत्वे वा स्वलक्षणवदेषां वस्तुत्वप्रसक्ति:, भवत्पक्षेऽपि - सामान्यमात्रवाचित्वाविशेषात् पर्यायत्वं समानो दोष इति चेत्, न, सामान्यानां १. २१