SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ષગ્દર્શન ज्ञानम् । सामान्यविशेषज्ञानोत्पत्तौ अविभक्तमालोचनमात्रं प्रत्यक्षं प्रमाणमस्मिन् नान्यत् प्रमाणान्तरमस्ति । पदार्थध० सं० पृ० ४७१-७३ । ૩૮ જુએ પાછીપ ૧૭, ३७ सत्ताद्रव्यत्वादीनां सामान्यानामाश्रयो येनेन्द्रियेण गृह्यते तेनैव तानि गृह्यन्ते । कन्दली पृ० ४६३ । ४० अत्रै वदन्ति । भिन्नेष्वनुगता बुद्धिः सामान्यं व्यवस्थापयति । सा च प्रतिपिण्डं दण्डपुरुषाविव न स्वातन्त्र्येण सामान्यविशेषलक्षणे द्वे वस्तुनी प्रतिभासयति । नापि तयोर्विशेषणविशेष्यभावः, 'गौः गोत्ववान्' इत्येवमनुदयात् । किन्तु तादात्म्यग्राहिणी प्रतीतिरियम्, 'गौंः अयम्' इत्येकात्मतापरामर्शात् । कन्दली पृ० ७४८- ७४९ । ४१ इदं पुनरमूल्यदानकयि सामान्यं स्वरूपं च नादर्शयति प्रत्यक्षतां च स्वीकर्तुमिच्छति । Six Buddhist Nyāya Tracts p. 99. ४२ एतासु पञ्चस्त्रवभासिनीषु ૩૯૮ प्रत्यक्षबोधे स्फुटमङ्गुलीषु । साधारणं षष्ठमिहेक्षते यः *** शृङ्गः शिरस्यात्मन ईक्षते सः । Six Buddhist Nyaya Tracts p. 101. ४३ यत्पुनर्गौरित्ययमविभागेन संवेदनं तत् समवायसामर्थ्यात् । संयोगे हि द्वयोः संसर्गाभासः समवायस्य पुनरेष महिमा यदत्र सम्बन्धिनौ अयःपिण्डवह्निवत् पिण्डीभूतावेव प्रतीयेते जातिरेव न च व्यक्तेः स्वरूपम् । तेन सत्यपि भेदे बदरादिवत् कुण्डस्य जातितो व्यक्तेः स्वरूपं पृथग् न निष्कृष्यते । परस्परपरिहारेण तूपलम्भोऽस्त्येव । दूरे गोत्वाग्रहणेऽपि पिण्डस्य ग्रहणात् । पूर्वपिण्डाग्रहणेऽपि पिण्डान्तरे गोत्वग्रहणात् । तस्माद् व्यक्तेरत्यन्तं भिन्नमेव सामान्यमिति ताकिकाणां प्रक्रिया | कन्दली पृ० ७५१-७५२ । ४४ उपदेश सहाय प्रत्यक्ष गम्यत्वात् । न्यायमं० ( भा० १) पृ० २०४ | ४५ यदा तु मातापित्रोस्तत्पूर्वेषां च वृद्धपरम्परया विशुद्धं ब्राह्मणत्वमवसितं तदा 'ब्राह्मणोऽयम्' इति प्रत्यक्षेणैव प्रतीयते । कन्दली पृ० ३४ । ४६ यथा हि सुविदितरत्नपरीक्षाशास्त्रो रत्नजातिभेदं प्रत्यक्षतः प्रत्येति, नापरः । न च तावता रत्नजातिभेदो नास्ति, न च तत्प्रत्यक्षमप्रत्यक्षम् । कन्दली पृ० ३५ । ४७ न चोपदेशापेक्षादप्रत्यक्षत्वं तस्य भवितुमर्हति गोत्वादिप्रत्ययस्यापि सम्बन्धग्रहणकाले तदपेक्षत्वदर्शनात् । न्यायमं० ( भा० १) पृ० २०४ । ४८ यच्चोक्तं स्त्रीणां स्वभावचपलानां विशुद्धिर्दुरवबोधैवेति । तदसत् अभियुक्तैः
SR No.005834
Book TitleShaddarshan Part 02 Nyaya Vaisheshik
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherUniversity Granthnirman Board
Publication Year1974
Total Pages628
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy