________________
પઠ્ઠ ન
परस्य ज्ञानमिति । अतः प्रकाशमानस्यैव बोधस्य विषयप्रकाशकत्कमिति न्यायादनपेतम् । न्यायकन्दली पृ० ३०२ ।
तथा सति सहोपलम्भनियमात्... वेद्य वेदकयोरमेदः, मेदस्य सहोपलम्भानियमो व्यापको नीलपीतयोर्युगपदुपलम्भनियमाभावात् । न्यायकन्दली पृ० ३०२ । 3 तस्मादाकारमात्र संवेदनमेव सर्वत्र । न्यायकन्दली पृ० २६९ ।
४ आलयविज्ञानप्रतिबद्धवासनापरिपाकात् । न्यायकन्दलो पृ० २६८ । वासनाविशेषात् तद्विशेषसिद्धिः । न्यायकन्दली पृ० ३१३ ।
૧૪
૫ न तावदयं दृश्यतेऽर्थस्य सदाऽतीन्द्रियत्वात् । कार्यवैचित्र्येण कल्पनीयश्चेत् दृश्यस्य " समनन्तरप्रत्ययस्यैव शक्तिवैचित्र्यं कल्प्यताम् येन स्वप्नज्ञानेऽप्याकारवैचित्र्यं घटते, न हि तत्र देशकालव्यवहितानामर्थानां सामर्थ्यम्, अविद्यमानत्वात् । न्यायकन्दली पृ० ३०४ ।
९ ज्ञानाकारस्याप्यनादिवासनावशेन प्रतिभासमानस्य...। न्यायकन्दली पृ० ३०६ । तत्राप्यनादिरविच्छिन्नप्रवाहामेदवासनैव निमित्तम् । न्यायकन्दली पृ० ३०४ ।
७ स्वसंवेदनसिद्धौ किं प्रमाणम् ? यत् प्रकाशं तत् स्वप्रकाशे परानपेक्षं यथा प्रदीप इति चेत् ? प्रदीपस्य तद्देशवर्तितमोपनयने व्यापारः, स चानेन स्वयमेव कृत इति तदर्थं प्रदीपान्तरं नापेक्षते, वैयर्थ्यात् । स्वप्रतिपत्तौ तु चक्षुरादिकमपेक्षत एवेति साध्यविकलता । न्यायकन्दली पृ० ३०९ ।
८
'सह' शब्दस्य साहाय्यं यौगपद्यं वाऽर्थः, तयोश्च भेदेन व्याप्तत्वाद्विरुद्ध इति... । न्यायकन्दली पृ० ३०२ ।
८ असिद्धश्च सहोपलम्भनियमो नीलमेतदिति बहिर्मुखतयार्थेऽनुभूयमाने तदानीमेवान्तरस्य तदनुभवस्यानुभवात् । न्यायकन्दली पृ० ३०९ ।
ज्ञानाकारत्वे त्वहं नीलमिति प्रतीतिः स्यान्न त्विदं नीलमिति । न्यायकन्दली पृ० ३१० ।
११ वासनावैचित्र्यं यदि बोधाकारादनन्यत् कस्तासां परस्परतो विशेषः । अथान्यदर्थे कः प्रद्वेषः ? न्यायकन्दली पृ० ३१२ |
१२ स्वप्नादिप्रत्यया अपि समारोपितब ( ह्यालम्बना न स्वात्ममात्रपर्यवसायिनः, जाग्रदवस्थोपयुक्तानामेवार्थानां संस्कारवशेन तथा प्रतिभासनात्, अन्यथा दृष्टश्रुतानुभूतेष्वर्थेषु तदुत्पत्तिनियमायोगात् । न्यायकन्दली पृ० ३१० ।
૧૩
न हि विषयातिशयमन्तरेण प्रतिभासातिशयोऽवकल्पते । न्यायमञ्जरी, भा० १, पृ० १२४ ।
१४ षण्णामपि पदार्थानामस्तित्वाभिधेयत्वज्ञेयत्वानि । प्रशस्तपाद्रभा० पृ० ४१ ।
૧૦