________________
પદર્શન १४ एवमेतत् परिमितं व्यक्तं दृष्ट्वा अनुमानेन साधयामः अस्त्यस्य कारणं प्रधानं यद् व्यक्तं
परिमितमुत्पादयति । यदि च प्रधानं न स्यात् निष्परिमाणमिदं व्यक्तं स्यात् । माठर
(सां० का० १५ ।) १५ समन्वयात् । सां० का० १५ । कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम् ।
सां० का० १४ । १६ सां० का० १० । १७ व्यापकत्वं च प्रकृतेः कारणत्वसामान्येनैव बोध्यम्, कारणशून्यप्रदेशाभावात्...महदादिकं
तु समान्येनापि न व्यापकम् । योगवार्तिक २.१८ । १८ तथाहि बुद्ध्यादय उपात्तमुपात्तं देहं त्यजन्नि देहान्तरं चोपाददत इति तेषां परिस्पन्दः । ___ सां० त० कौ० १० । . १८ यद्यप्यव्यक्तस्यास्ति परिणामलक्षणा क्रिया तथापि परिस्पन्दो नास्ति । सां० त० को० १० । २० प्रकृतेरक्रियत्वं चाध्यवसायाभिमानादिरूपप्रतिनियतकार्यशून्यत्वमेव, न तु चलनादिकर्म____ शून्यत्वम् ।... चलनाऽपरनामक्षोभावगमात् । योगवार्तिक, २.१८ । २१ महदादिविकाराणां तु सर्गभेदेन भिनत्वं स्पष्टमेव । योगवार्तिक २.१८ ।। २२ अनेकं पुरुषभेदात् । अनिरुद्धवृत्ति, सां० सू० १. १२४ ॥ २३ प्रलये प्रवाहविच्छेद एव । अनिरुद्धवृत्ति, सां० सू० ५. १५ । २४ पुरुषभेदेन सर्गभेदेन च भेदाभाव एव प्रकृतेरेकत्वम् । योगवार्तिक, २. १८ । २५ न तावत् प्रत्यक्षत एव तच्छक्यं निश्चेतुम् । प्रधानानामतीन्द्रियत्वात् । लिङ्गं चासंदिग्धं
नास्ति । आप्ताश्च नो नाऽभिदधुरतो मन्यामहे नैतदेवमिति' । किञ्च, ऐकेनार्थपरिसमाप्तेः । अपरिमितत्वादेतदेकं प्रधानमलं सर्वपुरुषशरीरोत्पादनाय । तस्मादन्यपरिकल्पनानर्थक्यम् । परिमितमिति चेत् मतम्, परिमितं प्रधानमिति न, उच्छेदप्रसङ्गात् । तथा स संसारोच्छेदप्रसङ्ग । किञ्च, अनवस्थाप्रसङ्गात् । एकस्येश्वरस्य योगिनो वेच्छायोगादनेकशरीरत्वम् । तत् परिमितादयुक्तम् ।...तस्मादयुक्तं प्रतिपुरुषं
प्रधानानीति । युक्तिदीपिका, ५६ । २६ मूर्तिव्यवधिजातिभेदाभावानास्ति मूलपृथक्त्वम्' इति वार्षगण्यः । व्यासभाष्य ३. ५३ ।
जगन्मूलस्य प्रधानस्य पृथक्त्वं नास्तीत्यर्थः । तत्त्ववै० ३. ५३ ।। २७ सां० का० १० । २८ सां० का० १० । २८ सां० का० १० । ३० प्रकृतेर्निरवयवत्ववाक्यानि चारम्भकावयवनिषेधकानि, न तु वनांशवृक्षतुल्यानामंशानां
निषेधकानि । योगवार्तिक, २. १८ ।।