________________
યોગદર્શન
१८ तत्र शौचं मृज्जलादिजनितं भेध्याभ्यवहरणादि चित्तमलानामाक्षालनम् । योगभाष्य २. ३२ ।
૨૫૧
च बाह्यम्, आभ्यन्तर
१८ सत्त्वस्वभावस्य चित्तस्य मला रागद्वेषादयस्तेषां मैत्र्यादिना प्रक्षालनं प्रसाद इति । योगवार्तिक २. ३२ ।
२० सन्तोषः सन्निहितसाधनादधिकस्यानुपादित्सा । योगभाष्य २. ३२ ।
२१ तपः द्वन्द्वसहनम्... व्रतानि चैव यथायोगं कृच्छ्रचान्द्रायणसान्तपनादीनि । योगभाष्य २. ३२ ।
२२ स्वाध्यायः मोक्षशास्त्राणामध्ययनं प्रणवजपो वा । योगभाष्य २. ३२ । २३ ईश्वरप्रणिधानम् तस्मिन् परमगुरौ सर्वकर्मार्पणम् । योगभाष्य २. ३२ । २४ तत्र यमानामभावरूपतया कालाद्यनवच्छिन्नत्वसंभवात् सार्वभौमत्वमुक्तम्, नियमानां तु प्रतिनियतकालावच्छिन्नतया न सार्वभौमत्वं सम्भवत्यतो नात्र महाव्रतरूपो विशेष उक्त इति । यथोक्तयोश्च यमनियमयोर्मध्ये निवृत्तिरूपतया शक्यसम्पादनत्वेन यमा एव परमहंसानामावश्यका जडभरतादीनामप्यहिंसापालनस्य विष्णुपुराणादौ स्मरणाद् न तु नियमाः प्रवृत्तिरूपतया योगन्तरायत्वात् । तदुक्तं भागवते - यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् । योगवार्तिक २. ३२ ।
•
२५ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा...। योगसूत्र २. ३४ । योगभाष्य २. ३३-३४ ।
२६ एवमेकाशीतिभेदा हिंसा भवति । सा पुनर्नियमविकल्पसमुच्चयभेदादसङ्ख्येया प्राणभृद्भेदस्यापरिसंख्येयत्वादिति । एवमनृतादिष्वपि योज्यम् । योगभाष्य २.
३४ ।
२७ वितर्कबाधने प्रतिपक्षभावनम् । योगसूत्र २. ३३ ।
२८ घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः, स खल्वहं त्यक्त्वा वितर्कान् पुनस्तानाददानस्तुल्यः श्ववृत्तेन इति भावयेत्, यथा श्वा • वान्तावलेही तथा त्यक्तस्य पुनराददान इति । योगभाष्य २. ३३. 1 वितर्का... दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् । योगसूत्र २. ३४ ।
२८ 'हिंसकः प्रथमं तावद् वध्यस्य वीर्यमाक्षिपति, ततः शस्त्रादिनिपातेन दुःखयति, ततो जीवितादपि मोचयति । ततो वीर्याक्षेपादस्य चेतनाचेतनमुपकरणं क्षीणवीर्य भवति, दुःखोत्पादाद् नरकतिर्यक्प्रेतादिकषु दुःखमनुभवति, जीवितव्यपरोपणात् प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात् कथञ्चिदेवोच्छ्वसिति' । योगभाष्य २. ३४ ।
૩૦ યોગદર્શનના યમબાધક વિતર્કો અને નિયમબાધક વિતર્કોને જૈનોના આર્તધ્યાન અને રૌદ્રધ્યાન સાથે સરખાવવા જેવા છે અને વિતર્કોની પ્રતિપક્ષભાવનાને