________________
૧
૨ ૧
સાંખ્યદર્શન 3F-3७ सां० का० ५१ । सां० त० कौ० ५१ । 3८ युक्तिदी० ५१ । 3८ माठर, सां० का० ५१ । ४० प्रतीयतेऽनेनेति प्रत्ययो बुद्धिः, तस्य सर्गः । तत्र विपर्ययः अज्ञानमविद्या च बुद्धिधर्मः,
अशक्तिरपि करणवैकल्यहेतुका बुद्धिधर्म एव, तुष्टिसिद्धी अपि वक्ष्यमाणे बुद्धिधर्मावेव ।
सां० त० कौ० ४६ । ४१ युक्तिदी० ४६ । ४२ सत्त्वबहुला ऊर्ध्वस्रोतसः, रजोबहुला अक्स्रिोतसः, तमोबहुलास्तिर्यस्रोतसो मुख्य
स्रोतसश्च । युक्तिदी० ५४ । ४३ नित्यप्रवृत्तस्यापि प्रधानात् सिद्धिस्रोतसो विपर्ययाशक्तितुष्टिप्रतिबन्धात् सर्वप्राणिष्वप्रवृत्ति
र्भवति । विपर्ययात् तावत् स्थावरेषु । ते हि मुख्यस्रोतसो विपर्ययात्मानः । अशक्तेस्तिर्यक्षु । ते हि तिर्यक्स्रोतसोऽशक्त्यात्मानः । तुष्टिदेवेषु । ते हि ऊर्ध्वम्रोतसस्तुष्ट्यात्मानः । मानुषास्त्वकिस्रोतसः संसिद्ध्यात्मानः । तस्मात् त एव तारकादिषु प्रवर्तन्ते । सत्त्वरजस्तमसां चाङ्गाङ्गिभावनियमाद् विपर्ययाशक्तितुष्टिभिः प्रतिहन्यन्त इति
न सर्वेषां सर्वदा सिद्धिर्भवति । युक्तिदी० ५१ । ४४ पञ्चाधिकरणस्य तावद् द्विविधं ज्ञानम्- प्राकृतिकं वैकृतिकं च । प्राकृतिकं त्रिविधम् -
तत्त्वसमकालं सांसिद्धिकमाभिष्यन्दिकं च । तत्र तत्वसमकालं संहतश्च महांस्तत्त्वात्मना । महति प्रत्ययो भवति । उत्पन्नकार्यकारणस्य तु सांसिद्धिकमाभिष्यन्दिकं च भवति । सांसिद्धिकं यत् संहतव्यूहसमकालं निष्पद्यते, यथा परमर्ज्ञानम् । आभिष्यन्दिकं च संसिद्धकार्यकारणस्य कारणान्तरेणोत्पद्यते । वैकृतं तु द्विविधम् - स्ववैकृतं परवैकृतं च । स्ववैकृतं तारकम्, परवैकृतं सिद्ध्यन्तराणि ।... तथा ज्ञानमेवं धर्मादयोऽपीति ।
युक्तिदी० ४३ । (उत्थानिका) । ४५ विन्ध्यवासिनस्तु नास्ति तत्त्वसमं सांसिद्धिकं च । किं तर्हि सिद्धिरूपमेव । तत्र परमर्षेरपि
सर्गसंघातव्यूहोत्तरकालमेव ज्ञानं निष्पद्यते यस्माद् गुरुमुखाभिप्रतिपत्तेः प्रतिपत्स्यत इत्यपीत्याह-सिद्धं निमित्तं नैमित्तकस्यानुग्रहं कुरुते, नापूर्वमुत्पादयतीति । निमित्तनैमित्तिकभावश्चैवमुपपद्यते । तत्र परमर्षेः पटुरूहः अन्येषां क्लिष्ट इत्ययं
विशेषः । सर्वेषामेव तु तारकाद्यविशिष्टम् । युक्तिदी० ४३ । (उत्थानिका) । ४६ आचार्य आह-त्रिविधा भावाः सांसिद्धिकाः प्राकृतिका वैकृतिकाश्चेति । तत्र
सांसिद्धिकग्रहणात् तत्त्वसमकालं प्रत्याचष्टे, नैव तदस्तीति । कथम् ? यदि हि तथा स्यात् तत्त्वान्तरानुत्पत्तिः सङ्घातो व्यूहश्चानर्थकः स्यात् । महत्युत्पनं ज्ञानं तत्रैवोपलब्धमिति कः सङ्घातार्थः ? । तथा चर्षेरूहो नोपपद्यते प्रतिबन्धाभावात् । न हि यस्य कार्यकारणव्यूहसमकालज्ञानोत्पत्तौ कश्चित्. प्रतिबन्धोऽस्ति, यतः कालान्तरं प्रतीक्षते । तस्मादस्य सहैव कार्यकारणाभ्यां ज्ञानमभिनिष्पद्यते प्रदीपप्रकाशवदित्यतः सांसिद्धिकम् । अन्येषां तु सत्त्वस्यापटुत्वात् कालान्तरेण प्रकृत्यभिष्यन्दाद् द्रागिति भवति,
५-८