SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ अर्हम् ॥ श्रीमद् सच्चारित्रचूडामणि सुखसागराष्टकम् ॥ ललित. अखिलकर्मणां ग्रन्थिभेदकं, भवनिवारकं शान्तिधारकम् । प्रणत सौख्यदं दीनतापहं, सुखपयोनिधिं श्रीगुरुं भजे ॥१॥ जित कलकलौ तत्त्ववेदिनं, मथितमानसोद्भूतविक्रमम् । क्रमकदर्थिताऽनेकविक्लवं, सुखपयोनिधिं श्रीगुरुं भजे ॥२॥ तमकलङ्कितं वर्त्तनं स्तुतं, जनगणैः सदा यस्य शस्यते । " परम पात्रता यत्र राजते, सुखपयोनिधिं श्रीगुरुं भजे ॥३॥ मुनिवर ! त्वयादीपितं ततं मतिमतादृतं जैनशासनम् । जनमतार्थिनस्त्वां नमन्त्यतः, सुखपयोनिधिं श्रीगुरुं भजे ॥ ४ ॥ नियमधारिणीं श्राद्धसन्तति, विहितवान्भवास्तत्त्वदेशकः । तवगुणानहं स्तोतुमक्षमः, सुखपयोनिधिं श्रीगुरुं भजे रतिकरी न यन्मूर्त्तिरुत्तमा, भवति कस्य सद्भूविदायिनी । करुणचेतसं सम्पदालयं, सुखपयोनिधिं श्रीगुरुं भजे ॥ ६ ॥ चिरमखण्डिता भावनापरा, विमलचेतसा येन साधिता । शमितकामनं तं मुनिप्रियं सुखपयोनिधिं श्रीगुरुं भजे ॥७॥ तमघघातिनं त्रातभारतं पतितपावनं कारिताऽवनम् । अखिलदेहिनामात्मबोधदं, सुखपयोनिधिं श्रीगुरुं भजे ॥८॥ (@K+ 11911
SR No.005816
Book TitleSuparshvanath Charitra Part 02
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherZZZ Unknown
Publication Year
Total Pages496
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy