SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ( अथ तृतीयं परिशिष्टम् ) [ अथ धातु - प्रत्ययाऽनुबन्धफलप्रतिपादिकाः कारिकाः ] " उच्चारणेऽस्त्यवर्णाय आः क्तयोरिनिषेधने । इकारादात्मनेपद, - मीकाराच्चोभयं भवेत् ॥ १ ॥ उदितः स्वरान्नोऽन्तयोः, नवादाविटो विकल्पनम् । रूपान्त्ये डे परेऽह्रस्व, ऋकारादङ्घ्रिकल्पकः ॥ २ ॥ ऌकारादङ् समायात्येः सिचि वृद्धिनिषेधकः । ऐः तथा रिनिषेधः स्या, - दोः क्तयोस्तस्य नो भवेत् ॥ ३ ॥ औकार इड्विकल्पार्थे, - ऽनुस्वारोऽनिविशेषणे । लुकारश्च विसर्गश्रा, - ऽनुबन्धो भवतो नहि ॥ ४ ॥ कोदादिर्न गुणी प्रोक्तः, खे पूर्वस्य मुमागमः । गेनोभयपदी प्रोक्तो, घश्च च जोः क- गौ कृतौ ॥ ५ ॥ आत्माने गुणरोधे ङ-, श्वो दिवादिगणो भलेत् । ओ वृद्धौ वर्तमाने क्तः, टः स्वादिष्ठद्यु [ रथु ] कारकः ||६|| त्रिमगर्थो डकारः स्याण्, णश्चुरादिश्च वृद्धिकृत् । तस्तुदादौ नकारश्चे, - च्चाऽपुंसीति विशेषणे ॥ ७ ॥ रुधादौ नागमे पो हि, मो दामः सम्प्रदानके । यस्तनादौ रकारः स्यात्, पुंवद्भावार्थसूचकः ॥ ८ ॥ स्त्रीलिंगार्थे लकारो हि, उत औविति वो भवेत् । शः क्रयादिः क्यः शिति प्रोक्तः, पः पितोऽविशेषणे ||९|| पदत्वार्थे सकारो हि, नोक्ता अत्र न सन्ति च । धातूनां प्रत्ययानाञ्चा, - ऽनुवन्धः कथितो मया ॥ १० ॥ ३३ "
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy