SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना-१ ॐ अ॥ विदितमेतज्जिनशासने द्रव्यानुयोग-गणितानुयोग-चरणकरणानुयोग-धर्मकथानुयोगा भिधानुयोगचतुष्टयम् । तत्रापि सद्धर्मावाप्तौ धर्मकथानुयोग एव प्राय सर्वभव्यजीवोपकारकः सर्वतीर्थकराणामपि देशनादौ तथाप्रवृत्तत्वात्, धर्मकथानुयोग एव च शेषानुयोगत्रिकस्यापि तत्तत्प्रसङ्गानुसारतस्तत्तत्स्थाने सरलतया प्रदर्शितत्वात् । अत एव प्रचुरतरा ग्रन्था एतद्विषयाः प्रभूततरैराचार्यवग्रंथिता दरीदृश्यन्ते, तेषु चायमेकतमो धर्मकल्पद्रुमनामा विरचित आगमगच्छविभूषणैः श्रीउदयधर्मगणिभिः । पूज्याश्चैते कदा कुत्र चेमं निर्मितवन्तः कांस्कांश्चान्यानित्यादि किं जन्मभूम्यादि चेति जिज्ञासव एव वयं नोपलब्धवन्त इह प्रशस्त्यभावादन्यत्र तददृष्टत्वाच्च, अल्पतरा गुरुपरम्परा च ग्रन्थान्ते तैरेव लिखित्वाज्ज्ञायत एवेति। See सान्वर्थस्यास्य धर्मकल्पद्रुमस्य चतस्रः शाखा अष्टौ पल्लवाश्च वर्तन्ते । तत्रादौ ग्रन्थारम्भे प्रथमपल्लवे श्रीआदिनाथ-शान्ति-नेमि-पार्श्व-वीराणामन्येषां च तीर्थकृतां गौतमगणधरस्य वाग्देव्याश्च स्मरणादिपुरस्सरं मङ्गलं कृत्वा धर्मस्य माहात्म्यं मिथ्याधर्मस्य चानुपादेयत्वं विस्तरेण दर्शितम् । दानादिधर्मस्य पुष्ट्यर्थं प्रतिपल्लवं प्रासङ्गिककथानकानि स्थाने स्थाने स्वपरसमयोक्तसुभाषितश्लोकाश्च प्रभूततरा लिखिताः प्राकृतकाव्यानि भाषाकाव्यान्यपि च । प्रतिपल्लवं चादौ संक्षिप्तमङ्गलमपि कृतमस्ति । दानादिस्वस्वशाखावर्णनप्रसङ्गे तत्तद्धर्म एकान्तहितसाधकत्वेन दृढीकृतः । तत्र दानधर्माभिधा प्रथमशाखा पल्लवत्रयेण विस्तृता । शीलधर्मनाम्नी द्वितीयशाखा चतुर्थ-पञ्चमपल्लवाभ्यां पल्लविता । तपोधर्माख्यतृतीयशाखायां एक एव षष्ठः पल्लवः, भावनाधर्माभिधचतुर्थशाखायां च सप्तमाष्टमौ पल्लवौ रचितौ ।चतुर्ध्वपि धर्मेषु चतस्रो मुख्यकथा अवान्तरप्रासङ्गिककथासहिताः कथिताः, ताश्चानुक्रमणिकातो ज्ञेयाः। यद्यप्यस्मिन् ग्रन्थे नास्ति कोऽपि प्रधानो रसो धर्मरसं विना, नास्ति तादृशोऽलङ्कारगणो नास्ति च तादृशो वर्णनाधिकार: काठिन्यचमत्कृतियुतस्तथापि सरलभाषया कथारसो धर्मरसश्चैव तादृशः पोषितो येन संस्कृतभाषाभ्यासिनां धर्मजिज्ञासूनां चायं ग्रन्थो महोपकारी स्यादिति निश्चयः। अयं ग्रन्थः पुरा विक्रमार्क १९७३ वर्षे 'गुजराती' मुद्रणालये श्रेष्ठि श्रीदेवचन्द्र लालभाई जैन पुस्तकोद्धारसंस्थया मुद्रापितः, तथापि तस्मिन् सत्साधनाभावेन स्थाने स्थाने बहवः स्खलना दृष्ट्वा श्री विजयधर्मसूरीश्वरशिष्येण पन्यास प्रवर श्रीभक्तिविजयेन प्रूफवाचकस्य च प्रमादादिना सम्भवेत् स्खलना । तत्सर्वं विद्वद्भिः सद्भिः क्षमाधनैः शोधयित्वा ज्ञापनीयं, यथा पुनरावृत्तिसमये दत्तावधाना भवेयम्।इति शम्॥ संवत् १९८४ कार्तिका पूर्णिमा श्री जैनधर्मप्रसारक सभा, भावनगर प्रकाशित प्रतेरुद्धृता
SR No.005772
Book TitleDharm Kalpdrum Mahakavya
Original Sutra AuthorN/A
AuthorDharmtilakvijay
PublisherDharmkirtivijay Jain Granthmala
Publication Year2012
Total Pages228
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy