________________
सू० १-१-२५, १-१-२६
૨૯૫ त्वक्-त्वचमिति-अत्र समासान्ते कृते वृत्तिरकारान्ता भवति; न च तत्र त्वगिति वृत्त्यन्तः, ततः "वृत्त्यन्तोऽसषे" [१.१.२५.] इति पदत्वप्रतिषेधस्त्वचो न प्राप्नोति । समाधत्ते-उच्यत इत्यादिना । अयमर्थः-समासात् समासान्तो विधीयमानस्तस्यैवान्तत्वं व्याहन्ति, न तु तदवयवस्य त्वचः, तस्य समासावयवत्वात्, नहि समुदायावयवोऽवयवस्यावयवो भवति । यद्वेत्थं व्याख्यासमासशब्देन समासावयवोऽभिधीयते, ततः समासावयवात् त्वचः समासान्तो विधीयत इति भवत्ववृत्त्यन्तत्वं त्वचस्तथापि सित्येवेति नियमेन पदत्वं निवर्त्यत इति भावः । अथवा समासात् परः समासान्तो विधीयते, ततः स्यादेः पूर्वस्त्वच एव परो भवति, इति अस्तु अवृत्त्यन्तत्वं त्वचः, तत्र च पदत्वप्राप्तिरेव नास्तीति कत्वाभाव इति । समासशब्दस्तु लक्ष्यवशात् क्वचित् समासावयवं क्वचित् समासं चाऽऽहेति । दधिसेगिति-सिञ्चतीति विच् (सेक्,) ततो दध्नः सेगित्येव कार्यम्, दधि सिञ्चतीति तु न, यतः 'सोपपदात् सिचो विज् नेष्यते' इति न्यासः ॥२५॥
અનુવાદ :- ઉપરોક્ત તમામ પંક્તિઓનો અનુવાદ શબ્દમહાર્ણવન્યાસમાં આવી ગયેલ
•॥ पञ्चविंशतितमम् सूत्रम् समाप्तम् ॥
सूत्रम् - सविशेषणमाख्यातं वाक्यम् । १ । १ । २६ ॥
___-तपशिल:त्याद्यन्तं पदमाख्यातम् । साक्षात् पारम्पर्येण वा यान्याख्यातविशेषणानि तैः प्रयुज्यमानैरप्रयुज्यमानैर्वा सहितं प्रयुज्यमानमप्रयुज्यमानं वाऽऽख्यातं वाक्यसंज्ञं भवति।
तत्पशनो मनुवाद :“જિ” વગેરે અંતવાળું પદ આખ્યાત કહેવાય છે. સાક્ષાત્ અથવા તો પરંપરાથી જે આખ્યાતનાં વિશેષણો છે. તે વિશેષણો સહિત અથવા તો અધ્યાહાર (અપ્રયોગ કરાયેલાં) એવા વિશેષણો સહિત એવું આખ્યાત, વાક્ય સંજ્ઞાવાળું થાય છે. આ આખ્યાત પણ પ્રયોગમાં આવેલું હોય અથવા તો પ્રયોગમાં ન આવેલું હોઈ શકે છે.