________________
૦ ૧-૧-૧૭
૨૩૭
(न्या०स० ) अकारः संवृत इत्यन्ये इति - संवृतताऽऽख्यं पञ्चमं प्रयत्नमन्ये मन्यन्त इत्यर्थः । અનુવાદ :- કેટલાક લોકો બાર સંવૃત પ્રયત્નવાળો છે એવું માને છે એ લોકો સંવૃતતા નામના પાંચમા પ્રયત્નને માને છે.
(न्या०स० ) अकारं संवृतं शिक्षायामेके पठन्ति तेनाकाराकारयोः संवृत - विवृतयोभिन्नप्रयत्नत्वात् स्वसंज्ञा न प्राप्नोतीति विवृत एवात्र प्रतिज्ञायते, प्रयोगे तु संवृत एवाऽसौ स्वरूपेणेत्यन्य इत्युक्तम् । सानुनासिकेति - नासिकामनुगतो यो वर्णधर्मः स तथा, सह तेन वर्तते यो वर्णः स तथा । निर्गतोऽनुनासिकाद् यः स तथा ।
અનુવાદ :- ઉપરોક્ત તમામ પંક્તિઓનો અનુવાદ બૃહન્યાસમાં આવી ગયો છે. (न्या०स० ) स्वर: संजातो येषां ते स्वरिताः । यथाकथञ्चिद् व्युत्पत्तिः ।
अनुवाद :- स्वर उत्पन्न थयो छे देखोने ते स्वरित अहेवाय छे. अहीं सञ्जात अर्थमा स्वर शब्दने तद्धितनो "इंतच् " प्रत्यय थयो छे. खा प्रमाणे स्वरित शब्दनी ओ प्रहारथी व्युत्पत्ति जतावी छे. स्वरित खे प्रयत्न छे. स्वर उत्पन्न थाय छे देखोना संबंधां ते स्वरित स्व३५ प्रयत्न छे.
(न्या०स० ) अनुनासिक इति - अनुनासिको धर्मोऽस्यास्तीति अभ्रादित्वाद् अ:, तद्धर्मरहितो-ऽननुनासिक इति । रेफोष्मणां त्विति - अन्यवर्णापेक्षया तेषां स्वत्वाभावः, रेफस्य तु रेफः स्वो भवत्येव। एवमूष्मणामपि स्वा न भवन्तीति ।
ननु वर्णानां तुल्याऽऽस्यप्रयत्नत्वे कथं श्रुतिभेदः ? उच्यते - कालपरिमाण - करण-प्राणकृतगुणभेदात् श्रुतिभेदः । तथाहि-यावता कालेनाक्ष्ण उन्मेषो निमेषो वा भवति तावान् कालो मात्रा, मात्राकालो वर्णो मात्रिकः, द्विस्तावान् द्विमात्रः, त्रिस्तावान् त्रिमात्रः, अर्धमात्राकालं व्यञ्जनम्; तदिदं वर्णेषु चतुर्विधं कालपरिमाणं भेदकृद् भवति । करणं च श्रुतिभेदकरं भवति, तत् प्रागे - वोक्तम् । प्राणकृताश्च गुणभेदा घोषाघोषादय इति । निवृत्त्यर्थमिति - तेनारुश्श्च्योततीत्यत्र शकारचकारयोस्तुल्यस्थान-बाह्यप्रयत्नत्वे सत्यपि "धुटो धुटि ० " [१.३.४८.] इति शकारस्य चकारे लोपो न भवति ।
અનુવાદ :- ઉપરની તમામ પંક્તિઓનો અનુવાદ બૃહન્યાસમાં આવી ગયો છે. (न्या०स० ) ते ह्यासन्न इत्यत्रैवेति- "आसन्नः” [ ७.४.१२०.] इत्यत्रापि महाप्राणस्यैवावकाशः, अन्येषां च वेदे प्रयोजनम् । उपयुज्यन्त इति - उपयुक्ता भवन्तीत्यर्थः । शिक्षामिति