________________
सू० १-१-3
૧૦૫ परान्नित्यम् इति-तथाहि-वनानीत्यादौ "शसोऽता०" [१.४.४९.] इति दीर्घ वाधित्वा परत्वात् “नपुंसकस्य शिः" [१.४.५५.] इत्येव भवति । तस्माच्च नित्यं बलीयः, यथा-'स्योन' इत्यत्र परमपि गुणं बाधित्वा नित्यत्वादूट् । तथा *नित्यादन्तरङ्गम्* यथा-ज्ञाया ओदनो ज्ञौदनस्तमिच्छति क्यन्, ततः सनि, अकृतव्यूहत्वाद् 'ज्ञा ओर्दन य स' इति स्थिते द्वित्वं प्राप्नोति
औत्वं च, ततो नित्यत्वाद् द्वित्वे प्राप्ते तद् वाधित्वाऽन्तरङ्गत्वादौत्वं भवति-जुज्ञौदनीयिषतीति । तथा *अन्तरङ्गादनवकाशम् यथा-गर्गस्यापत्यानि यञ्, तेषां छात्राः “दोरीयः" [६.३.३२.] ततोऽन्तरङ्गत्वाद् “यजत्र:०" [६.१.१२६.] इति यो लुप् “न प्राग् जितीये०" [६.१.१३५.] इति तन्निषेधश्च प्राप्नुतः, परमनवकाशत्वाद् "न प्राजितीये." [६.१.१३५.] इत्येव प्रवर्तते, ततो गार्गीया इति सिद्धम् । तथा आदिशब्दात् *परादन्तरङ्गम् अपि, यथा-सिवेः "प्याधा-पन्यनि०" [उणा० २५८.] इति नेऽपवादत्वाद् वलोपं बाधित्वा गुणात् पूर्व नित्यत्वादूटि च कृते परत्वाद् गुणे प्राप्तेऽन्तरङ्गत्वात् तं बाधित्वा यत्वं भवति ‘स्योन' इति । एतासां क्रियादीनां संज्ञानां न्यायानां च शास्त्रप्रवृत्तये लोकात् सिद्धिर्वेदितव्या, न च लोकमन्तरेण तज्ज्ञानोपायोऽस्ति, न च तज्ज्ञानं विना "क्रियार्थो धातुः" [३.३.३.] "गुणादस्त्रियां नवा" [२.२.७७.] "जातिकालसुखादेर्नवा" [३.१.१५२.] "स्वाङ्गादेरकृतमित०" [२.४.४६.] इति, "संख्यानां र्णाम्" [१.४.३३.] “परिमाणात् तद्धित०" [२.४.२३.] इति, "ङसोऽपत्ये" [६.१.२८.] “वीप्सायाम्" [७.४.८०.] “लुगस्यादेत्यपदे" [२.१.११३.] "अवर्णस्येवर्णादिना०" [१.२.६.] इति "इवर्णादेरस्वे स्वरे०" [१.२.२१.] इत्यादिशास्त्रप्रवृत्तिः । नीयते प्राप्यते संदेहदोलामधिरूढोऽर्थो निर्णयपदमेभिरिति "न्यायावाय०" [५.३.१३४.] इति घञि न्याया युक्तयः ॥३॥
-: न्याससारसभुधारनो अनुवाद :સંપૂર્ણ અનુવાદ શબ્દમહાર્ણવન્યાસમાં આવી જ ગયો છે. તેથી અહીં પૃથગુ અનુવાદ લખવામાં આવ્યો નથી. જિજ્ઞાસુઓએ શબ્દમહાર્ણવન્યાસમાંથી તે તે પંક્તિઓનો બોધ પ્રાપ્ત उरी सेवो.
॥ तृतीयम् सूत्रम् समाप्तम् ॥
१. 'ओदनीयः' इ।
२. 'तथा' इ।