________________
દર્શનાચાર આઠપ્રકારનો છે.
न
C
"
म
तथा चाहगाथा-'निस्संकी त्यादि, निःशङ्कित इत्यत्र शङ्का शङ्कितं निर्गतं शङ्कितं न यतोऽसौ निःशङ्कितः देशसर्वशङ्कारहित इत्यर्थः, तत्र देशशङ्का समाने जीवत्वे कथमेको मां भव्योऽपरस्त्वऽभव्य इति शङ्कते, सर्वशङ्का तु प्राकृतनिबद्धत्वात्सकलमेवेदं परिकल्पितं म भविष्यतीति, न पुनरालोचयति यथा - भावा हेतुग्राह्या अहेतुग्राह्याश्च तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति, प्राकृतनिबन्धोऽपि बालादिसाधारण इति उक्तञ्च - "बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः सिद्धान्तः प्राकृतः स्मृतः ॥ १ ॥ " - दृष्टेष्टाविरुद्धश्चेति, उदाहरणं चात्र पेयापेयकौ यथाऽऽवश्यके, ततश्च निःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्राधान्यविवक्षया दर्शनाचार उच्यते, अनेन दर्शनदर्शनिनोरभेदमाह, तदेकान्तभेदे त्वदर्शनिन इव तत्फलाभावात् मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्येति १। तथा निष्काङ्क्षितो-देशसर्वकाङ्क्षारहितः, तत्र | देशकाङ्क्षा एकं दर्शनं काङ्क्षति दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोचयति षड्जीवनिकायपीडामसत्प्ररूपणां च उदाहरणं चात्र राजामात्यौ यथाssवश्यक इति २ । विचिकित्सा - मतिविभ्रमः निर्गता विचिकित्सा - मतिविभ्रमो यतोऽसौ निर्विचिकित्सः साध्वेव जिनदर्शनं किन्तु प्रवृत्तस्यापि सतो ममास्मात्फलं भविष्यति (उत ) न भविष्यतीति ?, क्रियाया: कृषीबलादिषू भयोपलब्धेरिति विकल्परहितः, न ह्यविकल्प उपाय उपेयवस्तुपरिप्रापको न भवतीति सञ्जातनिश्चयो निर्विचिकित्स उच्यते एतावताऽंशेन निःशङ्किताद्भिन्नः, उदाहरणं चात्र विद्यासाधको यथाssवश्यक इति यद्वा निर्विज्जुगुप्स:- साधुजुगुप्सारहितः, उदाहरणं चात्र श्रावकदुहिता यथाऽऽवश्यक एव ३। तथाऽमूढदृष्टिश्च बालतपस्वितपोविद्याऽतिशयदर्शनैर्न मूढा - स्वरूपान्न चलिता दृष्टिः सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः, अत्रोदाहरणं सुलसा साविया, जहा लोइयरिसी अबंडो रायगिहं गच्छंतो बहुयाणं भवियाणं थिरीकरणणिमित्तं सामिणा भणिओ - सुलसं पुच्छिज्जासि, अंबडो चिंतेड़ - पुन्नमतिय
जि
स्त
7
H.
દશવૈકાલિકસૂત્ર ભાગ-૨
અધ્ય. ૩ નિયુકિત ૧૮૨
હવે ભાવાર્થ કહેવાય છે.
તેમાં ઉદ્દેશ પ્રમાણે નિર્દેશ હોય એટલે શરુઆતમાં દર્શનાચારનો ભાવાર્થ કહેવાય
छे.
MEHF R
घ
1
00
F
न
शा
ना
य