________________
દશવૈકાલિકસૂત્ર ભાગ-૧ अध्य. १ नियुक्ति-१ ॥१॥" इत्यलं प्रसङ्गेन । ते च तीर्थादिसिद्धभेदादनेकप्रकारा भवन्ति, तथा चोक्तम् - “तित्थसिद्धा अतित्थसिद्धा तित्थगरसिद्धा अतित्थगरसिद्धा सयंबुद्धसिद्धा पत्तेयबुद्धसिद्धा बुद्धबोहियसिद्धा इत्थीलिंगसिद्धा पुरिसलिंगसिद्धा नपुंसगलिंगसिद्धा सलिंगसिद्धा अन्नलिंगसिद्धा गिहिलिंगसिद्धा एगसिद्धा अणेगसिद्धा" इत्यत आह'सर्वसिद्धेभ्यः' सर्वे च ते सिद्धाश्चेति समासस्तेभ्यः, अथवा - 'सिद्धिगतिमुपगतेभ्यः' इत्यनेन सर्वथा सर्वगतात्मसिद्धपक्षप्रतिपादनपरदुर्नयस्य व्यवच्छेदमाह, तथाचोक्तमधिकृतनयमतानुसारिभिः - 'गुणसत्त्वान्तरज्ञानान्निवृत्तप्रकृतिक्रियाः । मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः ॥ १ ॥ " व्यवच्छेदश्चैतेषां सामीप्येन सर्वात्मना सिद्धिगतिगमनाभावात्, 'कर्मविशुद्धेभ्यः' इत्यनेन तु सकर्मकाणिमादिविचित्रैश्वर्य वत्सिद्धप्रतिपादनपरस्येति, उक्तं च प्रक्रान्तनयदर्शनाभिनिविष्टैः"अणिमाद्यष्टविधं प्राप्यैश्वर्यं कतिनः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥१॥" इत्यादि, व्यवच्छेदश्चैतेषां कर्मसंयोगेन अनिष्ठितार्थत्वाद्वस्तुतः सिद्धत्वानुपपतेरिति, ‘सर्वसिद्धेभ्यः' इत्यनेन तु भङ्ग्यैव सर्वथा अद्वैतपक्षसिद्धप्रतिपादनपरस्येति, तथा चोक्तं प्रस्तुतनयाभिप्रायमतावलम्बिभिः - 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥१॥ व्यवच्छेदश्चास्य सर्वथा अद्वैते बहुवचनगर्भसर्वशब्दाभावात् (सिद्धिगतिगमनाभावात् ) । 'नत्वा' प्रणम्येति, जि अनेन तु समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानान्नित्यानित्यैकान्तवादासाधुत्वमाह, क्त्वाप्रत्ययार्थानुपपत्ते:, तत्र नित्यैकान्तवादे शा एकान्तनित्यत्वादप्रच्युतानुत्पन्नस्थिरैकस्वभाव-त्वाद्भिन्नकालक्रियाद्वयकर्तृत्वानुपपत्तेः, शा सक्षणिकैकान्तवादे चात्मन उत्पत्तिव्यतिरेकेण व्यापाराभावाद्भिन्नकालक्रियाद्वय- स ना कर्तृत्वानुपपत्तिरेवेत्यलं विस्तरेण, गमनिकामात्रमेवैतदिति । भवति च चतुर्थ्यप्येवं ना य नमनक्रियायोगे, अधिकृतगाथासूत्रान्यथानुपपत्तेः, आप्तश्च नियुक्तिकारः, 'पित्रे सवित्रे य च सदा नमामी ' त्येवमादिविचित्रप्रयोगदर्शनाच्च, कर्मणि वा षष्ठी । सर्वसिद्धेभ्यो नत्वा * किमित्याह - 'दशकालिकनिर्युक्ति कीर्त्तयिष्यामि' तत्र कालेन निर्वृत्तं कालिकं, * प्रमाणकालेनेति भावः, दशाध्ययनभेदात्मकत्वाद्दशप्रकारं कालिकं * * प्रकारशब्दलोपाद्दशकालिकं, विशब्दार्थं तूत्तरत्र व्याख्यास्यामः, तत्र नियुक्तिरितिनिर्युक्तानामेव सूत्रार्थानां युक्तिः - परिपाट्या योजनं निर्युक्तयुक्तिरिति वाच्ये
न तत्र
न
त
स्पे
3
तावदात्मन
न
怎
त