________________
300 * भलधारी डेभयन्द्रसूरिद्धृत टीप्पएाङ (भाग-७)
प्रदेशरूपाणि लाभस्थानानीत्यर्थः, 'दन्तनखोत्पलपत्रिकादिभिरित्यादि (१८४ -९), दन्तैर्नखैश्च योषित्शरीरावयवेषु यान्युत्पलपत्रिकारचनादीनि तैर्मदनमुत्तेजयति, तथा अवाजिनो वाजिरूपतापादनं वाजीकरणं तच्च करोति, वाजिनो हि किल शुक्रधातुप्राचुर्यं भवतीति औषधप्रयोगादिना सोऽप्यात्मनस्तद्रूपतामापादयतीत्येके, अन्ये त्वाहुः - औषधादिप्रयोगाच्चिरेण शुक्रधातोः पातनं 5 वाजीकरणमिति । 'मुहेण वा अरिं आणेइ जहा कुमारामच्चेणे 'त्यादि (१९८–६), कथानिका संक्षिप्यानवगम्यमानार्थतया चेह लिखिता, चूर्णौ तु किञ्चित्सविस्तरा सुगमा च दृश्यते, तद्यथाकस्यचिद्राज्ञः क्वचिद्देशान्तरे त्वरितन्त्रा पुरुषेण प्रयोजनमभूदिति कोऽत्र शीघ्र इति सचिवं पप्रच्छ, सोऽपि कञ्चन पुरुषं तथाविधं निवेदितवांस्तस्य चानिच्छतोऽपि राज्ञा वृत्तिः कृता, हठाच्च तस्मिन्प्रयोजने प्रेषितोऽयं चामात्ये प्रद्वेषमापन्नोऽमात्यं जघानेत्यमात्येनासौ स्वमुखेन शत्रुतां नीत इति 10 वृत्त्यक्षराण्यप्युक्तन्यायेन गमनीयानीति । पौषधाधिकारे 'इक्कसिं वा दो व 'त्ति (२१३–२), एकभक्तं . द्विभक्तं वा करोतीत्यर्थः । 'दब्भवत्थं वा सुद्धवत्थं वत्ति (२१४ – १०), दर्भवस्त्रादि शुद्धवस्त्रं वाऽऽस्तरतीत्यर्थः । ‘पज्जोसवणागहणं एत्थ विगिट्ठे कीरइ सव्वजहन्नो अट्ठमंन्ति (२२७-९) इदमुक्तं भवति-चातुर्मासिकपाक्षिकापेक्षया पर्युषणायामष्टमंलक्षणं गरिष्ठं तपः क्रियत इतिकृत्वा " "होही पज्जोसवणा’इत्यादिगाथायां पर्युषणाग्रहणमकारि, अन्यथा हि यथा पर्युषणायामष्टमं तथा चातुर्मासिके 15 षष्ठं पाक्षिके चतुर्थं विधीयत एव, तथा तीर्थङ्करस्नात्रेऽनुयाने च रथयात्रारूपे यथाशक्त्या तपः क्रियत एवेति, इदं च पर्युषणायामष्टमं क्रियते तद्विकृष्टतपसां मध्ये सर्व्वजघन्यमितिशेयं, अत एवोक्तं- "विगिट्ठ करेइ सव्वजहन्नो अट्ठमं”ति, गुरव:- आचार्यास्तेषां पर्युषणायां भक्तपानादि वैयावृत्त्यं विधेयमिति चेतसि निधाय पर: प्रेरयति-'ते किन्न करेंति 'त्ति (२२७-११), इदमुक्तं भवति - तेऽपि गुरवः पर्युषणायामुपवासं
1
किं न विदधति ?, तद्विधाने च साधोर्गुरुवैयावृत्त्यासंभव एवेति पराभिप्रायः, अत्रोत्तरमाह-'असहू 20 हुज्ज'त्ति उपवासे कर्त्तव्येऽसहिष्णवः - असमर्थ गुरवो भवेयुरिति न तपः कुर्व्वन्तीतिभावः, यदि गुरवोऽपि कुर्वन्त्येव तत्रोपवासं तर्हि गुरुवैयावृत्त्यासंभव इति चेन्न, यतो न भक्ताद्यानयनमेव गुरुवैयावृत्त्यं, किंत्वन्यदपीतिदर्शयति——अण्णा काइ आणत्तिं पये 'त्यादि (२२७ – ११), तत्र दिने ग्रामान्तरादौ गुरवः प्रेषयेयुः शिक्षकादिनिमित्तं वा भक्तपानाद्यानयनं कारयेयुर्व्याख्यानादिश्रान्तानां वा तेषां शरीरे किञ्चिद्वैयावृत्त्यं कर्त्तव्यं स्यादित्यन्यदपि गुरुवैयावृत्त्यं संभवतीतिस्थितं, अत्र च विधिमाह - 25 सो'इत्यादि (२२८–१), अयमत्र भावार्थ:- स च कश्चिद्विवक्षितसाधुरन्यो वा पर्युषणायामुपवासे वैयावृत्त्ये च कर्त्तव्ये यदि समर्थो भवति तदा स एव वैयावृत्त्यं कार्यते न पुनरनागतं कोऽपि तप:कर्म्म कार्यते, अथ द्वितये कर्त्तव्ये नास्ति कोऽपि क्षमस्तदा य उपवासकरणाक्षमस्तत्र दिने स्वत एव पारयिष्यति, स करोतु वैयावृत्त्यं अथ सोऽपि नास्ति न वा लभते भक्तपानादिकं वैयावृत्त्यविधिं न जानाति तदा स एव विवक्षितसाधुरनागतमेव तप:कर्म कार्यत इति, तपस्विवैयावृत्त्यविधिमाह - 'तवस्सी नाम खवओ 'इत्यादि 30 (२२८–४), तस्य भक्तादिभिर्वैयावृत्त्यं तत्र दिने कर्त्तव्यमित्युपजीव्य परः प्राह - सोऽपि क्षपकस्तदा पर्युषणायां किं न तपः करोतीति ?, अत्राचार्य आह - 'सो तीरपत्तो 'त्ति (२२८-५), एतदुक्तं भवतियत्तेन तप: प्रारब्धमासीत् तस्य तपसस्तीरप्राप्तोऽसौ समर्थितं तत्तपः इत्यर्थः, इत्यसौ पर्युषणायामपि