________________
૪૧૮
* भसधारीडेभयन्द्रसूरित टीप्पा (भाग - ६)
कथं निश्चीयते ? इत्याह- ' दहिअस्स, पच्छओ उअत्तेता नियत्ते पडिलेहिज्जइ तीराए त्ति, (३८–४) अगालिते दध्नि भाजनपतिते सति संसक्तभ्रान्तौ सत्यां तद्दधिभाजनं तीराभिमुखमानीय पुनः पश्चाभिमुखमपावर्त्यते निवृत्ते च सति संसृष्टदधितीरेषु निरीक्ष्यते यदि संसक्तं भवति तदा दृश्यन्ते तत्र जीवा इत्येष, तत्र संसक्तिपरिज्ञानोपायः । 'सत्तेवि ( सत्तेसुवि) एस विही त्ति, 5 (३८-५) इक्षुविकारे कक्कबे तीमनेऽप्येष विधिरित्यर्थः, आत्मसमुत्थं, द्वीन्द्रियग्रहणमुक्तं, परसमुत्थमतिदिशति ——'परोवि आभोगअणाभोगा एआणि देज्जत्ति, (३८-५) एतद्विषयं सूत्रं वस्तुतो व्याख्यातमेव, नवरं 'आभोगाईवि भइअव्व' मिति, द्वीन्द्रियाणामाभोगादिकं ग्रहणं विभजनीयंअनेकप्रकारं वक्तव्यमित्यर्थः, तदेवानेकप्रकारत्वं दर्शयति- 'संसत्तंमि न गम्मई' इत्यादि व्याख्यातमेवेति द्वीन्द्रियपारिस्थापनिका समाप्ता ॥
साम्प्रतं त्रीन्द्रियपारिस्थापनिकोच्यते - रल्लको नाम त्रीन्द्रियजीवविशेषः, काष्ठफलकादिलक्षणः संस्तारको यदि मत्कुणैः संसक्तो भवति तदा तादृग्जातीये काष्ठान्तरेऽमी सङ्ग्राम्यन्ते, उद्देहिकागृहीते. तु वस्त्रे उत्सर्गतस्तावत्परिहणीयमेव तद्, अथ 'नत्थि तस्स विगिंचणं 'ति, (३९ - २) अथापरवस्त्राभावादिना केनचित्कारणेन तत्परिहर्तुं न शक्यते इत्यर्थस्तदा यद्विधेयं तदाह-तासामुद्देहिकानां यत्कुड्यादौ बिलं भवति तस्य प्रत्यासन्नीक्रियन्ते ततो निर्गत्य वस्त्रात् तत्र प्रविशन्ति, लोचे तु कृते सप्त दिनानि 15 यावत् केशाः शोध्यन्ते, मार्गगमनादिकारणें सकृदपि शोधिता निर्व्याघातशीतलप्रदेशे परिस्थाप्यन्त इति, त्रीन्द्रियजातेर्बहुत्वात्प्रत्येकं वक्तुमशक्यत्वादतिदिशति - ' एवमाईणं तहेवे 'त्यादि, (३९-३) कीटकाभिर्व्याप्तं पानकमनाभोगादिना गृहीतं भवति तदा शीघ्रमेव तत्पानकं गल्यते 'अह पडिता' इति, (३९—४) अथ सद्योगृहीतपानके कुतश्चिदकस्मात्तस्मिन्नेव क्षणे एका द्वे बह्वयो वा कीटिका: पतितास्तदा भक्तखरण्डितसलेपेनापि हस्तेन झगित्येवोद्भ्रियन्ते, नन्वेवं सति संसृष्टकरसम्बन्धि20 भक्तावयवैः पानकं सलेपं स्यात् तथा च तत्परिभोगे साधूनां प्रत्याख्यानभङ्गप्रसङ्ग इत्याह— 'अलेवाडं चेव पाणगं होति त्ति, (३९-५) जीवदयाप्रवृत्तत्वाद्बहुतरगुणसिद्धेर्न सलेपत्वं पानकस्येति भाव:, प्रसङ्गत एवाह–एवं मक्षिकापि पानकादौ पतिता झगित्येव सलेपेनापि हस्तेनोद्ध्रियते, एतच्च सलेपत्वं करस्यैकाकिनं साधुमधिकृत्योक्तं यदा पुनर्गोचरचर्यायां साधुद्वयं पर्यटति तदैक एव भक्तं गृह्णीते स एव भक्तं करेण स्पृशति द्वितीयस्तु पानकमेव गृह्णाति तस्यालेप एंव कर इति, एतदेवाह - 25 'संघाडएण पुण एगो भत्त' मित्यादि सुगमं, यदि पुनस्तन्दुलोदकादिषु पूतरको दृश्यते तदा विस्तीर्णमुखपात्रे तज्जलं प्रक्षिप्योपरि गालनकं बध्यते ततश्च तदन्तरितं तत्पानीयं कोशकेनमृन्मयलघुभाजनविशेषेण खोरकेण वा-याचितकरोटकादिना उल्लिश्यते शेषं सुगमं यावत्त्रीन्द्रियपारिस्थापनिका ॥ इदानीं चतुरिन्द्रियपारिस्थापनिका - 'परहत्थे भत्ते पाणए वा' इत्यादि, (४११) यदि दायकहस्तव्यवस्थिते घृतादौ मक्षिका पतति तदा तदग्राह्यं यतीनां, अथ गृहीते तत्रासौ पतति 30 तदा झगित्येवोद्धृत्य छारेणावष्टभ्यते, कोत्थलगारिका नाम भ्रमरिका, 'संथारए मंकुणाणं 'ति, (४१–४) संस्तारके-काष्ठफलकादिलक्षणे 'मंकुणाणं' ति मत्कुणैरिति द्रष्टव्यं तैः पूर्व्वगृहीते
10