________________
परिशिष्टम् - १४१७ दत्तं भवति तदा सपानकं कस्मिश्चिन्नर्व्याघातवृत्तिकोणे वननिकुञ्जादौ वा तत्र परिस्थाप्यते यत्र न कश्चित् तिर्यगादिरापिबति, अथाप्रातिहारिकभण्डकं न लभ्यते किन्तु प्रातिहारिकं लब्धं पुनरपि तद् गृहस्थस्य समर्पणीयं तदा यद् विधेयं तदाहू - ' पच्छा पडिस्सए पाडिहारिएण तिकालं पडिलेहेति 'त्ति, (३६ - ६ ) पश्चादिति यद्यप्रातिहारिकं भण्डकं न लभ्यत इति भावस्तत: प्रातिहारिकभण्डके प्रक्षिप्य तत्संसक्तोदकं प्रतिश्रयेऽपि ध्रियते त्रिकालं च प्रतिदिनं निरीक्ष्यते यदा 5 जीवाः परिणता भवन्ति तदा तत्पानीयं परिस्थाप्यते अथ नाद्यापि परिणमन्ति पानीयं तु शुष्यति तदाऽन्यदपि पानीयं तत्र प्रक्षिप्यते तावद् ध्रियते यावत् ते जीवाः परिणता भवन्ति ततः पानीयं परिस्थाप्य भण्डकं गृहस्थस्य प्रत्यर्प्यते, अथाप्रातिहारिकमितरद्वा भण्डकं न लभ्यते तदा यद्विधेयं तदाह-' अडवीए अणागमणपहे इत्यादि, (३७ – १) एतदुक्तं भवति - निर्व्याघाते वृक्षादिच्छायाचिक्खल्ले गर्त्ता खन्यते सा च मध्यभागे लिम्पित्वा निश्छिद्रा क्रियते मधुरवृक्षपत्रेण च शनैस्तदुदकं 10 तस्यां प्रक्षिप्यत्ते संसक्तोदकसंसृष्टभाजनं त्वसंसक्तोदकेन वारत्रयं प्रक्षाल्यते तच्च क्षालनजलं तस्यामेव गर्त्तायां प्रक्षिप्यते, एतदेवाह - 'एक्कसिं पाणएण' मित्यादि, 'पच्छा कप्पे ' इति, (३७–३) पश्चाद्वारत्रयधावनोत्तरकालं कल्पं ददाति-पात्रं प्रक्षालयतीत्यर्थः, ततः श्लक्ष्णकाष्ठैर्मालकं करोतिसूक्ष्मकाठैर्निरन्तरं गर्त्तामाच्छादयतीत्यर्थः उपरि च कर्द्दमेन निश्छिद्रं लिम्पयति उपरि च कण्टकवृक्षशाखया समाच्छादयति, अत्र च वृत्तावनुक्तोऽपि यः कश्चिन्मया विशेष उक्तः स आवश्यक - 15 चूर्ण्यनुसारत इति न स्वमनीषिका भावनीया विशेषार्थिना तु सैवान्वेषणीयेति । तदेवं "तं देसं चेव न गन्तव्वं असिवाईहिं गम्मेज्जे" त्यादिना "संसत्तंमि न गम्मई" त्यादि "पायासई अंबिली" त्यादि च गाथाद्वयं व्याख्यातं साम्प्रतं 'पायम्मि न सीयाई' इत्यादिगाथाभावार्थमाह-' तेण य भायणेण' मित्यादि, (३७ - ४) यत्र भाजने संसक्तोदकं गृहीतमासीत् तत्र शीतोदकं न गृह्यते तत्संसक्तिप्रसङ्गात् किन्त्वेकं द्वे त्रीणि वा दिनानि यावत् तत्रावश्रावणं कूरं वा गृह्णाति, संसक्तमसंसक्तं 20 च पानकमेक एव साधुर्न धरति यतोऽसंसक्तमपि पानकं संसक्तगन्धमात्रेणापि संसज्यते संसक्तं च गृहीतं विज्ञातं वाऽपरिस्थाप्य न गोचरादौ हिण्ड्यते भोजनं वा क्रियते विराधनाप्रसङ्गात्तज्जीवानां, यदि मार्गखेदादिना परिश्रान्तो भवति तदा किं विधेयमिति आह - 'ये न हिंडंती' त्यादि सुगमं, व्याख्याता 'पायम्मिन सीयाई' इत्यादिगाथा, साम्प्रतं तक्रादिगतविधिविवक्षया " तक्काईणवि एव" मित्यादिगाथादलाभिप्रायमाह - ' एवं चेव महीयस्सवीत्यादि, (३८ - २) तक्रस्य पानीयवत् 25 विधिर्वक्तव्यः, संसक्तत्वेन संभाव्यमानदधिनवनीतयोर्विधिमाह-गालितकठिनीभूतदध्नो नवनीताद्वैका उडी - खोट्टरिका गृहीत्वा तक्रस्य मध्ये प्रक्षिप्यते यदि भवन्ति जीवास्तदा तत्र प्रक्षिप्ते सति दृश्यन्ते, ननु यदि तक्रं न भवति तदा क्वासावुण्डिका प्रक्षिप्यते इत्याह- 'गोरसधोवणे, पच्छा उपहोदकं सीयलाविज्जई'त्यादि, (३८-३) गोरसधोवणं नाम दधिसंसृष्टस्थाल्यादिप्रक्षालनजलं तत्रासावुण्डिका प्रक्षिप्यते तदभावे शीतीभूतोष्णोदके तस्याप्यभावे मधुरतन्दुलोदके प्रक्षिप्य निरीक्ष्यते शुद्धं परिभुज्यते 30 संसक्तं तु उक्तयतनया परिस्थाप्यते, ननु च गालितदध्नः संसक्तपरिज्ञानमुक्तं सहजं तु संसक्तमितरद्वेति