________________
३८७
परिशिष्टम् - १ प्रज्ञप्त्यां तु स्वयम्भूरमणाद्याधारविशेषितजन्तुप्रत्याख्यानविषयाऽनुमतिप्रत्याख्यानाभ्यनुज्ञेति न दोष इति गाथार्थः । 'आह कहं पुण मणसा' गाहा (३३७-३) व्याख्या - पर आह—ननु च वाक्कायाभ्यां तावत्प्रत्यक्षादिप्रमाणत एव करणकारणानुमतयो दृश्यन्ते मनसस्तु ता नोपलभ्यन्ते तत्कथं तास्तत्र प्रत्येतव्या इत्याह—यथा वाग्योगतनुयोगाभ्यां करणकारणानुमतयः तथा मनसापि भवन्त्येव, कुत इत्याह-'तदधीणत्ता वइतणुकरणाईण' मित्यनन्तरगाथायां सम्बन्धः, एतदुक्तं भवति - वाक्तन्वोः 5 सम्बन्धीनि यानि करणानि करणकारणानुमयत इत्यर्थः तानि मनोऽधीनान्येव भवन्ति, नहि मनोविकल्पमन्तरेण प्रायस्तनुवचनाभ्यां करणादीनि प्रवर्त्तन्ते अतो मनस्यपि तनुवचनकरणाद्युपचारः क्रियत इति भावः, यदिवा किमत्रोपचारेण ?, यदा हि निर्व्यापारतनुवचनोऽपि सावद्ययोगकरणादि मनसा विकल्पयति तदा मुख्यतयाऽपि तनुवचनवन्मनस्यपि करणादीनि सम्भवन्त्येवेति, आह च——अह मणंकरणं सावज्जजोगमणण' - मित्यादि भावितमेवेति । 'अर्थविकल्पसङ्ग्रहार्थं न 10 पुनरुक्त मिति (३४४-८), अर्थो - मनः प्रभृतिकरणलक्षणः तस्य विकल्पा - भेदाः तत्सङ्ग्रहार्थं त्रिविधेनेत्युच्यमानं न पुनरुक्तं, एतदुक्तं भवति य एव मनसा वाचा कायेनेत्यनन्तरं सविस्तरं वक्ष्यमाणोऽर्थः ‘स एव त्रिविधेनेत्यनेन सङ्गृह्येोक्तोऽतः सङग्रहपदत्वादपुनरुक्तमिदमिति । 'अथवा अत्राणमतीतसावद्ययोग' मित्यादि ( ३५१ - १२), न त्राणं अत्राणं - संसारभयात् त्रातुमसमर्थं सावद्यं योगं जुगुप्से इत्यर्थः, कस्मादित्याह — अधुना सामायिकेन त्राणं मम भविष्यतीति हेतो:, लब्धे 15 हि साम्प्रतं त्राणरूपे सामायिके तमत्राणस्वरूपं सावद्यं योगं व्युत्सृजामीतिभावः । नन्वेवं सावद्ययोगपरित्यागादि'त्यादि ( ३५२ - ३) अत्र किल परोऽतीवासम्बद्धप्रलापितया विवक्षितनिर्दोषसम्बन्धेन सम्बन्धितमपि व्युत्सृजामि - शब्दमनिष्टसम्बन्धेन सम्बन्धयन्निदमाह– ननु चैवमुक्तन्यायेन 'करेमि भंते ! सामाइय'मित्यादिसूत्रस्यायं तात्पर्यार्थो गम्यते, यदुत - सावद्ययोगपरित्यागेन करोमि भदन्त ! सामायिकमिति, एवं सति सावद्ययोगनिवृत्तिरत्र प्रतीयते, पर्यन्ते च ' तस्स भंते 20 ! पडिक्कमामी'त्यादौ तस्य व्युत्सृजामीतिशब्दप्रयोगे सतीदमनिष्टमापद्यते तस्य - अनन्तरसामर्थ्यलब्धसावद्ययोगनिवर्त्तनस्य व्युत्सृजामि - सावद्ययोगस्य निवृत्तिमुत्सृज्य प्रवृत्तिं विदधामीत्यर्थः, अत्रोत्तरमाह‘तन्ने’त्यादि (३५२–५), यदि ह्येवमुल्लण्ठतया सम्बन्धः क्रियते तर्हि यदा कश्चित् 'मंसं पच्चक्खामि अन्नत्थणाभोगेण'मित्यादिना मांसविरतिमभिधाय पर्यन्ते व्युत्सृजामीति ब्रवीति तदाऽत्राप्यानन्तरोक्तां मांसविरतिं व्युत्सृजामीत्यनिष्टसम्बन्धः स्याद्, अथात्र मांसविरतिविपक्ष एव त्याज्यत्वेन मनसि 25 विवक्षितो मनोगत एव च भावः प्रत्याख्यानं भवतीति नानिष्टः सम्बन्धः क्रियते, यद्येवं सर्वं सुस्थमिहापि सावद्ययोगनिवृत्तिविपक्षस्य हेयत्वेनाभिप्रेतत्वादिति । 'त्रिविधं त्रिविधेन व्युत्सृजति पापमेष्य'मित्यादि (३५६-७), विशेषत एष्यमिति ब्रुवाणस्य कोऽभिप्रायः ?, उच्यते, सावद्ययोगविरत